SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः के श्रीतिलकाचार्यलघुवृत्तिः *" तद्वस्त्ररजको राज्ञा, प्रोक्तश्चेदधुनापयेत् । वस्त्राणि माऽर्पयिष्ठास्तत्प्रियया प्रेरितोऽन्यदा ।३३। रञ्जनायाऽपयामास, वस्त्राणीन्द्रमहोपरि । तद्दिने मागितास्तानि, श्वोऽपयिष्यामि सोऽवदत् ।३४ । एवं वर्षद्वये याते, तृतीयेऽब्दे पुनः पुनः । मार्गितोऽप्यार्पयनैव, रुष्टः कल्पोऽवदत्ततः ॥३५ । नाहं कल्पोऽस्मि चेत्तानि, रञ्जयाम्यसृजा न ते । अन्येधुः क्षुरिकापाणिर्गतोऽथ रजकः प्रियाम् ।३६ । ऊचेंऽशुकान्यर्पयास्य, साऽर्पयद्रजकोदरम् । पाटयित्वा तदसृजाऽरञ्जयत्तानि कल्पकः ।३७। तद्धार्योचे नृपादेशान्नादादोषोऽस्य कस्ततः । कल्पकोऽचिन्तयद्राज्ञो, यन्मयात्ता न मन्त्रिता ।३८। तद्राज्ञः केतवमिदं, प्राव्रजिष्यं पुरा यदि । नाभविष्यत्तदेतन्मे, ततो गच्छाम्यहं स्वयम् ।३९। मा यासं तद्धटेरात्तस्तद्ययो दाग नृपान्तिके । राजाभ्युत्थाय तं स्माह, तन्मदुक्तं विचिन्तितम् ।४०। सोऽवदद्भवदादेशं, कुर्वे मन्त्री कृतस्ततः । तं दृष्ट्वोपनृपं नष्टा, रजका रावकारिणः ।४१। राज्ये सर्वेश्वरः कल्पो, जातो जाताऽथ सन्ततिः । तेनाऽथ पुत्रवीवाहे, माङ्गलिक्याय भूभुजः ।४२। वस्त्राभरणशस्त्रादि, प्रगुणीक्रियतेऽखिलम् । दानाद्युपात्ततद्दासीमुखाज्ज्ञात्वा पुरातनः ।४३। मन्त्र्याख्यद्भूभुजे देव !, हत्वा त्वां कल्पकः सुतम् । राज्येऽभिषेक्तुकामोऽस्ति, सामग्री तादृगीक्ष्यते ।४४। आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता * योगसङ्ग्रहै: * ग्रहणासेवनशिक्षा द्वयाऽऽसेविता(५) - कल्पकः। गाथा-१२८४ ९०१ * KE%********** ********* ९०१ [३९७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy