________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९००
इतश्च कपिलो विप्रो, वसति स्म पुरादहिः । आगताः साधवः सायमन्येद्युस्तगृहे स्थिताः ।२१। जानन्त्येते न वा किञ्चिदित्यप्राक्षीद् द्विजः स तान् । आचार्यः कथितं तझ, श्रावकोऽभूत्तदैव सः ।२२। अथान्यदा गृहे तस्य, स्थिता: केऽपि सुसाधवः । जातमात्रः सुतस्तस्य, रेवतीदोषदूषितः ।२३। पात्रकाणि सुसाधूनां, धृतः कल्पयतामधः । नष्टा सा व्यन्तरी तस्य, कल्प इत्यभिधाऽभवत् ।२४ । सर्वविद्यः स जज्ञेऽथ, पितरौ मृत्युमापतुः । नैच्छद्दानं च संतोषी, दत्ते विद्यास्तदर्थिनाम् ।२५। तत्रास्त्येको द्विजः कल्पगमनागमनाध्वनि । कन्या जलोदरिण्यस्ति, तस्य तस्या वरोऽस्ति न ।२६ । स दध्यो कल्पकस्यैतामुपायेन ददाम्यहम् । कृत्वा कूपं गृहद्वारे, तन्मध्ये तामथाक्षिपत् ।२७। दृष्ट्वा कल्पकमायान्तमत्यु स्तेन पूत्कृतम् । कपिला भोः पपातान्धी, य उद्धरति तस्य सा ।२८। तच्छ्रुत्वा कृपया कल्पो, धावित्वा तां समाकृषत् । सोऽथ तेन द्विजेनोक्तः, सत्यसन्धो भवेरिति ।२९।। जनापवादभीतेन, प्रपन्ना कल्पकेन सा । पश्चादौषधयोगेन, कृता रतिरिवापरा ।३०। विद्वान् कल्प: श्रुतो राज्ञा, सोऽथाहूयाभ्यधीयत । मन्त्री भवेति सोऽवादीत, लुब्धः पापं करोत्यदः ।३।। नाहं परिग्रहं कर्वे, भोजनाच्छादने विना । दध्यौ राजा विना मन्तं, नाऽसौ ग्रहमुपेष्यति ।३२। .रेवती नामा व्यन्तरी तया गृहीतः इति दोषेण दूषितः । * अपराधम् ।
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) कल्पकोत्पत्तिः। गाथा-१२८४
९०० [३९६]