SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८९९ गृहीतोपधिमित्युक्ते, स एवोपधिमग्रहीत् । कतिका कङ्कलोहस्य, गोपितां चाददे तदा ।९। गता राजकुले तत्र, कृत्वा धर्मकथां चिरम् । सुप्तावाचार्यराजानौ, तां राज्ञः कर्तिकां गले ।१०। दत्वा दम्भव्रती सोऽगाद्यामिकरनिवारितः । रक्तेन गुरवः सक्ता, उत्थायैक्षन्त पार्थिवम् ।११। ज्ञात्वा व्यापादितं मा भूच्छासनस्याप्रभावना । आलोचितप्रतिक्रान्ताश्चिच्छिदुर्निजमस्तकम् ॥१२॥ प्रातर्गरुनृपो दृष्ट्वा, मृतो लोको व्यचिन्तयत् । घातकः कोपि हत्वाऽगाच्छलेन द्वयमप्यदः ।१३। ततः संस्कारितो तो द्वावपुत्रत्वान्नृपस्य च । अश्वोऽधिवासितो ज्ञातुं, राज्ययोग्यं ततो नरम् ।१४ । तन्त्र चाह्नि प्रगे दृष्टं, ममान्त्रैर्वेष्टितं पुरम् । नापितः स्वप्नमित्याख्यदुपाध्यायस्य तद्विदः ।१५।। सोऽपि तं स्वगृहे नीत्वा, स्त्रपयित्वा सुतामदात् । स चाऽश्वोऽन्तःपरिभ्रम्य, बहिस्ताद्राज्ययोग्यताम् ॥१६॥ कथयन्निव हेषाभिः, स्थितस्तमभिनापितम् । राज्ये राजप्रधानास्तं, दृष्ट्वा दीप्तं ततो न्यधुः ।१७। तं 'नन्द' इति सामन्ता, विनयं न तथा व्यधुः । अथाऽऽस्थान्युत्थितः सोऽवक्, गृह्णीतेतानहो भटाः!।१८। हसतस्तान्मिथो वीक्ष्याऽपश्यल्लेप्यमयं रुषा । प्रतीहारयुगं तद्राक्, खड्गहस्तमधावत ।१९। नष्टा: केऽपि हताः केऽपि, ततः सर्वे वशेऽभवन् । क्षमितो राजभिः सर्वैरमात्यं सोऽथ वीक्षते ।२०। आ.नि. प्रति.ध्य. सूत्रव्याख्या द्वात्रिंशना योगस्तङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) नन्दोत्पत्तिः। गाथा-१२८४ ८९९ [३९५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy