SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८९७ तेषां सर्वं विसंवाद्यथाऽन्विकापुत्रसूरयः । तत्पृष्टान्नरकानाख्यन्, सोचे स्वप्नोऽद्य वोप्यभूत् ॥८५ । जिनोपदेशमाहुस्तेऽन्यदा सा स्वर्गमैक्षत । तमप्यन्येऽन्यथाचक्षुर्यथावत्ते तु सूरयः ॥८६ । सोचे प्राप्याः कथममी, न गतिर्नरके कथम् । साधुधर्ममथाख्यंस्ते, साऽथ बुद्धाऽवदन्नृपम् ॥८७॥ व्रतं गृह्णामि सोऽवादीदत्रस्था मगृहेऽशनम् । चेदादत्से तदादत्स्व, प्राव्राजीत्तत्प्रपद्य सा ॥८८॥ जङ्घाबलपरिक्षीणास्तत्रास्थस्तेऽथ सूरयः । कृत्वाचार्यं गणोऽन्यत्र, विहर्तुं प्रेषितोऽखिलः ॥८९ । सरुजां साऽनयत्तेषां भिक्षामन्तःपुरात्ततः । अन्यदा सा शुभध्यानात्, केवलज्ञानमासदत् ।९० । पूर्वप्रवृत्तं विनयं केवली न भनक्ति यत् । तदिष्टभक्तमानिन्ये, वर्षत्यप्यन्यदाम्बुदे । ९१ । तेभ्यः कथमानिन्ये वर्षत्यायें त्वयाशनम् । सोचेऽचित्तं जलं यत्रापतत्तेनाध्वनागमम् । ९२ । गुरूचे कथं वेत्सि, वेधि क्षायिकसंविदा । तां ततोऽक्षमयचक्रे, खेदं च परमं गुरुः । ९३ । ज्ञान्यूचे मास्म खिद्यध्वं केवलं वोऽप्यदूरगम् । गङ्गामुत्तरतां भावि, तच्छ्रुत्वा तूत्थितः प्रभुः । ९४ । गङ्गायां नावमारूढो, यत्र यत्राऽकृत स्थितिम् । ततस्ततो मज्जति नौर्मध्ये सर्वाऽपि मज्जति । ९५ । लोकैः सोऽथाऽम्भसि क्षिप्तस्तस्य कोऽप्यमरस्तदा । तत्रासीत्प्राग्भवारातिः, स त्रिशूलमधो दधौ । ९६ । १. 'चख्यु' प ल । २. 'प्राप्यः' ल, । ३. 'कथमसी' ल ख । ************ ************** आ.नि. प्रति. ध्य. सूत्र. द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवन शिक्षाद्वयाऽऽ सेविता । (५) अणिकापुत्रकेवलोत्पत्तिः । गाथा - १२८४ ८९७ [३९३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy