________________
आवश्यक-* नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८९६
जीवन्तो प्रेक्षसे चेन्नो, तदेया लेखदर्शनात् । तज्ज्ञात्वा तमथोचे सा, मास्म प्राणेश खिद्यथाः ।७४। तया स्वपित्रोराख्यातं, ताभ्यां स सप्रियोप्यथ । विसृष्टोऽर्धपथे याते, सूते स्म सुतमन्विका ७५ । दास्यतः पितरौ नामेत्युक्तोऽसावन्विकासुतः । यातानां तत्र काले नादातां तत्राम तावपि ।७६ । शैशवातिक्रमे सोऽथ, त्यक्तभोगोऽग्रहीद्वतम् । वार्धके विहरन् गङ्गातटस्थे सपरिच्छदः ७७। पुष्पभद्रपुरेऽयासीत्पुष्पकेतुश्च तत्र राट् । तस्य पुष्पवतीभार्याऽपत्ययुग्मं च युग्मजम् ।७८। पुष्पचूल: पुष्पचूला, चेत्यन्योन्यानुरागभाक् । दध्यौ राजा वियोगे हि, मृत्युः स्यादनयोस्तत: १७९। मिथो विवाहयाम्येताविति पप्रच्छ नागरान् । यदत्रोत्पद्यते रत्न, तद्वशे कस्य जायते ।८०। । ऊचुस्ते त्वद्वशे देव !, पुष्पकेतुस्ततो मिथः । राज्या निषिध्यमानोऽपि, परिणाययति स्म तो ८१। देवी निर्वेदतस्तस्मात्प्रव्रज्य त्रिदिवं ययो । मृते राज्ञि तयोरेवाऽभूद्राज्यं पुष्पचूलयोः ८२। मातृदेवः सुतां ज्ञात्वाऽधिकस्नेहां प्रियेऽवधेः । मा गानरकमेषेति, स्वप्नान्तस्तानदर्शयत् ।८३। भीता साऽकथयद्राज्ञस्तेन पाखण्डिनोऽखिला: । पृष्टाः प्रभाते नरकस्वरूपं ते न्यवेदयन् ।८४ । १. 'अत्रिका' प । . 'पितरावपि' इत्यर्थः । * गङ्गातटस्थे पुष्पभद्रपुरेऽयासीत् इति अन्वयः ।
आ.नि. प्रति.ध्य.सूत्र.
द्वात्रिंशता योगसङ्ग्रहः * ग्रहणासेवन
शिक्षाद्वयाऽऽसेविता।(५) अर्णिकापुत्रः। पुष्पचूला। गाथा-१२८४
८९६ [३९२]
RXIIR