________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
स्वाम्यूचे चक्रिणोऽतीताः, क्वोत्पत्तिर्मम प्रभो !। प्रभुरूचेऽवनौ षष्ठ्या, तदश्रद्धालुरुत्थितः ।६२। विधाय चक्रिरत्नानि, कृताष्टमतपास्ततः । गुहां तमिस्रामागत्य, कृतमालमवोचत ।६३। सोप्यूचे चक्रिणोऽतीता, याहि त्वं न स यातवान् । गजमारुह्य दण्डेन, द्वारं घ्रन् यक्षघातितः ।६४। मृत्वागादवनौ षष्ठ्यामुदायी पार्थिवोऽजनि । तस्याधृतिरभूदत्र, नगरे मत्पिताऽभवत् ।६५। ततोऽन्यनगरं कर्तु, तज्जैः स्थानं व्यमार्गयत् । तदा व्यात्तमुखश्चाषः, प्रैक्षि तैः पाटलीतरी ।६६ । प्रविशश्च मुखे तस्य, स्वयमेत्यैत्य कीटकम् । उच्यते पाटलीवृत्तमभवन्मथुराद्वयम् ।६७। दक्षिणा चोत्तरा चेति, ततोऽगाद्वणिगौत्तरः । दक्षिणायां मथुरायां, व्यवहां महर्द्धिकः ।६८। । श्रेष्ठिनैकेन तस्याऽभूत्तत्र मैत्र्यमथैकदा । भुञ्जानेन गृहे तस्य, गृहीतव्यजना पुरः ।६९। आपादमस्तकं तेन, दृष्टा तस्य स्वसाऽन्विका । तद्रक्तो मार्गयत्तां स, तान्यूचुर्यदि तिष्ठसि ।७०। अपत्यजन्म यावत्तद्दद्यः स स्वीचकार तत् । उदूढा सा स्थितस्तत्रापन्नसत्त्वाऽथ साऽभवत् ।७१। अथाऽन्यदा पितुर्लेखस्तस्याऽऽयातोऽभिवाच्य तम् । मुञ्चन्नश्रूणि पृष्टः स, कान्तयाख्यन्न किञ्चन ।७२। साथ स्वयं तमादाय, वाचयामास तद्यथा । तवादर्शनतोऽस्माकमान्ध्यं जज्ञेऽश्रुभिदृशोः ।७३। १. 'कुत्रोत्पत्ति' ल,ल, ख प । २. 'अत्रिका' प ।
८९५
* आ.नि. * प्रति.अ.सूत्र. * द्वा. योगसंग्रहैः * ग्रहणा. शिक्षा.
(५) कूणिक* मृत्युः * अर्णिकापुत्रः।
गाथा-१२८४
举華筆筆筆肇華華華華華華華華華華華華華藥華藥業華華華華華華
RRRRRR
८९५ [३९१]