SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः ८९४ स पुष्पकविमानेन, नभसा सर्वतोऽभ्रमत् । अन्यदोजयनीपूर्या, चण्डप्रद्योतभभजः ।४८। अन्तःपुरं विदध्वंसे, शिवादेवीं विनाऽखिलम् । सोऽथ दध्यौ विनाश्योऽयं, दुर्धरः खेचरः कथम् ।४९।। तत्रेवाऽऽसीदुमानामगणिका रूपशालिनी । दृष्ट्वा यान्तं महेशं सा, धूपं तं प्रत्युदक्षिपत् ।५०। सोऽन्यदावातरत्तत्र, तस्या हस्तेऽम्बुजद्वयम् । स्मरं च मुकुलं चेक्ष्य, स्मेरे करमवाहयत् ।५१। मुकुलं सार्पयन्त्यूचे, योग्योऽसि त्वममूदृशाम् । न स्मेरकमलप्राया, मादृशः पुनरीक्षसे ।५२। तदुक्तिरञ्जितस्तत्र, तया सार्धमुवास सः । एकान्ते साऽन्यदा प्राक्षीद्विद्याः स्युना॑न्तिके कदा ।५३। सोऽवदन्मेथुनाऽऽसङ्गे, तया राज्ञो न्यवेद्यत । राजोचेऽसो तदा मार्यस्त्वं रक्ष्या प्रत्ययाय च ।५४ । पत्रं तदुदरे दत्वा, खड्गेन छेदितं भटैः । मार्यं द्वयमपीत्युक्त्वा, प्रच्छन्नाः स्थापिता भटा: ।५५।। मारितस्तैस्तदाऽऽसक्तस्तया सह स खेचरः । ततो नन्दीश्वरस्ताभिर्विद्याभिः समधिष्ठितः ।५६। शिलां व्योनि विकृत्योचे, हा हताश हनिष्यसे । तमथाऽक्षमयद्धीतो, राजाऽऽर्द्रपटसाटकः ।५७। सोऽवद दिदं युग्ममेतद्रूपं पुरे पुरे । विधाप्यायतनेऽर्चध्वे, ततो मुञ्चामि नान्यथा ।५८। तत्प्रपेदे नरेन्द्रोऽथ, सर्वत्रापि व्यधापयत् । तत्प्रासादान्महोच्छ्रायानेतस्योत्पत्तिरीदृशी ।५९। प्राविशत्कृणिक: शून्यां, वैशाली नगरी ततः । वाहयित्वा खरैस्तत्र, हलानि स्वां पुरीमगात् ।६०। तत्राजगाम श्रीवीरो, नत्वा पप्रच्छ कूणिकः । प्रभोऽहं चक्रवर्ती स्यां, बलं यन्मे ततोऽधिकम् ।६१। आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) महेशा_प्रारम्भः। गाथा-१२८४ ८९४ [३९०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy