________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः
५२५
********
ज्वलत्पर्शरथाऽऽगत्य, रेणुकेयो रुषाऽरुणः । कार्त्तवीर्यं रणे हत्वा स्वयं राज्यं प्रपन्नवान् । ३४ । इतः पलायिता राज्ञी, ताराऽऽगात्तापसाश्रमम् । सम्भ्रमेणाऽपतद्गर्भस्तस्या गृह्णन् भुवं रदैः । ३५ । सुभूम इति दत्ताद्बो, ववृधे तापसाश्रमे । परशुः परशुरामस्य, जज्वाल क्षत्रियान्तिके । ३६ । अन्यदाश्रमपार्श्वेन, पर्शुरामस्य गच्छतः । पर्शो ज्वलति तेनोक्ता, भौताः स्वं क्षत्रियं जगुः ॥ ३७ ॥ पर्शुराम: सप्तकृत्वः, क्षितिं निःक्ष [ष्क्ष ] त्रियां व्यधात् । स्थालं बभार दंष्ट्राभिस्तेषां मुक्ताकणैरिव ॥३८ । एवं व्यधीयत क्रोधाद्रामेण क्षत्रियक्षयः । नमयन्तः क्रुधं धन्या, नमोऽर्हाः स्युः पुनर्जिना: । ३९ । अथ मानोदाहरणं
वर्धमानः सुभूमोऽथ, यौवनाभिमुखोऽभवत् । इतश्चाप्रच्छि रामेण नैमित्तिकनरः स्वयम् ॥१॥ कुतो मे मृत्युरूचे स, देव ! सिंहासनेऽत्र यः । आसिष्यते भोक्ष्यते च, दाढाः पायसतां गताः ॥२॥ ततः सम्भाव्यतेऽन्तस्ते, ज्ञातुं तमथ भूभुजा । तदैवाऽवारितः सत्रः, कारितो नगराद्वहिः । ३ । तच तत्राऽऽसनं न्यस्तं, दाढास्थालं च तत्पुरः । दीयते भोजनं तत्र, सर्वेषां भोजनार्थिनाम् ॥४। हेमशब्दानु० ४-२-३२ [ज्वलद्दल...] इत्यनेन नमवन्तः इत्यत्र विकल्पे ह्रस्वत्वम् ।
******************************
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे क्रोधे
जमदग्नि
कथा, माने सुभूमकथा । गाथा - ९९८
५२५ [२१]