SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ८८२ पुनर्निमन्त्रितोऽप्यागात्तथैवाऽकृतपारणः । तृतीयवेलामप्येवं, तपस्वी कुपितोऽथ सः । ११ । प्रेत्याऽस्याऽहं वधाय स्यां, निदानमकरोदिति । तेनावेशेन मृत्वा स व्यन्तरोऽल्पर्द्धिकोऽभवत् । १२ । सुमङ्गलोप्यभूद्धौतदीक्षया व्यन्तरामरः । स च्युत्वा श्रेणिकः पूर्वं, राजा राजगृहेऽभवत् ॥१३॥ कुम्भीतापसजीवस्तु, च्युत्वाऽभूल्लिणोदरे । उत्पत्रेऽपि हि तत्राऽभूद्, राज्या द्वेषो महीपतौ ।१४। ज्ञात्वा तं गर्भदोषं सा, चक्रे शातनपातने । तथाऽपि नाऽपतत्काले, मातुर्दोहदमादधे । १५ । राजोदरामिषाऽऽस्वादे, नाऽऽख्यान्ती तं कृशाऽभवत् । निर्बन्धे कथितं राज्ञो, राज्ञाऽप्यूचेऽभयस्य तत् । १६ । तेन राजोदरे मुक्त्वा, कल्पयित्वा शशामिषम् । ददता खण्डशोऽलीकं, रटति श्रेणिके भृशम् ।१७। चिल्लाया अमात्येन पूरितो दोहदस्ततः । राज्ञीं राज्ञो व्यथार्त्ता च मन्त्र्यूचे माम्ब ! खिद्यथाः । १८ । संरोहिण्यौषधीलेपान्मया राजा पटूकृतः । कालेऽथाऽभूत्सुतोऽत्याजि, दास्या वैरीति भूपतेः । १९ । तं ज्ञात्वोचे नृपो राज्ञीं, सुनुराद्यः किमुज्झितः । अथाऽधोऽशोकमालोक्याऽशोकचन्द्र इति ब्रुवन् ॥२०॥ राजा जग्राह तं तत्र, कुक्कुटीकाणिताङ्गलिम् । मुखबाष्पहता राज्ञा सा रूढाङ्गलिका चिरात् । २१ । अथ कूणिक इत्याख्या, विदधे तस्य दारकैः । सुतौ हल्लविहल्लाख्यो, चिल्लणाऽजीजनत्पुनः । २२ । १. 'मा च खिद्यथाः' छप, प ****************************** आ.नि. प्रतिक्रमणा ध्ययनम् द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वया Ss सेविता (५) श्रेणिककूणिको। गाथा - १२८४ ८८२ [३७८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy