SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८८१ सुज्येष्ठा यावदायाताऽऽदाय स्वाभरणादिकम् । अदृष्ट्वा चिल्लणां तावत्पूचक्रे चिल्लणाहतिम् ।१००। सत्रद्धं चेटकं स्माह, रथी वीराङ्गदः प्रभो!। त्वत्प्रतापेन जित्वा तमानेष्ये चिल्लणामहम् ।१। रथ्येकव सुरङ्गाया, द्वात्रिंशत्सुलसासुताः । स्थिता वीराङ्गदे प्राप्ते, हतास्तेनैकपत्रिणा ।२। तद्रथोत्सारणव्यग्रे, तस्मिन् श्रीश्रेणिको ययो । सुज्येष्ठां श्रेणिको जल्पन्नूचेहं प्रिय! चिल्लणा।। तल्लाभे श्रेणिको हष्टो, विषण्णो रथिनां वधात् । चिल्लणाप्यतुषत्पत्या, खिन्ना तु स्वसृवचनात् ।४। स्वसृवृत्ताद्विरक्ता तु, सुज्येष्ठा व्रतमग्रहीत् । इतः प्रत्यन्तनगरे, जितशत्रुर्महीपतिः ।५। सूनुः सुमङ्गलोऽमात्यदारकः सेनकः पुनः । क्रीडापात्रं कुमारस्य, कुरूप इति सोऽभवत् ।६। ततो निर्वेदतः सोऽभूत्तपस्वी उष्ट्रिकालयः । मासादेकगृहावाप्त, भुङ्क्ते नाऽऽसे पुनस्तपः ।७। सुमङ्गलोऽथ राजाऽभूत्पितरि त्रिदिवं गते । राजपाटीकृताऽन्येद्युस्तपस्वी भूभुजेक्षि सः ।८। पृष्ठा ज्ञात्वाऽथ कारुण्यात्खेदितो बहशो मया । ततो न्यमन्त्रि मासान्ते, कार्य मे धानि पारणम् ।९। मान्द्याद्राज्ञः प्रवेशोऽस्य, नाऽभवत्पारणादिने । अलाभात्क्षुधितोऽप्याशु, प्राविशत्पुनरूष्ट्रिकाम् ।१०। १. 'पाटींगतोन्ये'... प. छ, 'पाती यतोन्ये'... ल. 'पार्टी यतान्ये ख' पाटीयता ल, । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहै: ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) श्रेणिककूणिक पूर्वभवः। गाथा-१२८४ ८८१ . [३७७] (*********
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy