________________
आवश्यक. नियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
८८०
प्रद्विष्टा निर्गतामर्षात्सुज्येष्ठारूपमद्भुतम् । आलिख्य चित्रफलकेऽदर्शयच्छ्रेणिकस्य सा ।८९। पृष्टया कथिते दूतं, तां वरीतुं विसृष्टवान् । अपास्थश्चेटकस्तं न, ददे व्याधकुले सुताम् ।९०। तं ज्ञात्वा श्रेणिकः खिन्नः, स्माह पृष्टोऽभयेन तत् । सोऽपि स्माह प्रभो ! मा स्म, खिद्यथा एष आनये ।९१ । वणिग्भूत्वैत्य वैशाल्यां, कन्यान्तःपुरसन्निधौ । गहीत्वाऽटुं स्थितो रूपं, पितुश्चित्रपटेऽलिखत् ।१२। कन्यान्तःपुरदासीश्च, हट्टे क्रेतुं समेयुषीः । अतोषयद्ददत्याज्यं, पृष्टे चित्रपटेऽत्र किम् ।१३। आख्यात्रः स्वामिनो रूपं, श्रेणिकस्येति ता जगुः । रूपं किमीदृक् तस्याऽस्ति, सोऽवक्कोटिगुणं ह्यतः ।१४। ता: स्वामिन्योस्तदाख्यंस्ते, प्राहेष्टां तास्तदाप्तये । प्रार्थितोऽथ वणिक्ताभिस्तं चित्रपटमार्पयत् ।९५ । सुज्येष्ठा ज्ञापयद्दासीस्ताभिरूचे वणिक् ततः । स्वामिन्याः श्रेणिको भर्ता, कथं भावीति कथ्यताम् ।९६ । सोऽवदद्यदि वोऽर्थित्वं, श्रेणिकं तदिहानये । ऊचुस्ता: क्रियतामेवं, तत्तेनाऽज्ञापि भूभुजः ।९७। आतदन्तःपुरं कृत्वा, सुरङ्गां श्रेणिकोऽभ्यगात् । सुज्येष्ठा चिल्लाणामूचे, याम्यनुश्रेणिकं स्वसः।।१८। गम्यतामित्युदित्वा सा, स्वयं शीघ्रमुपागता । सुरङ्गानिर्गता वीरा, गृहीत्वा चिल्लणां ययुः ।९९। १. 'गुण्य' ख । • पृष्टया परिवाजिकया इत्यर्थः ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता(५) चिल्लणा
प्राप्तिः । गाथा-१२८४
८८० [३७६]