SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८७९ देवस्तुष्टोऽथ पुत्रार्था, द्वात्रिंशगुटिका ददौ । स्मर्तव्योऽहं त्वया कार्ये इत्युक्त्वा स दिवं ययौ । ७७ । दध्यौ साथ कियत्कालं, बालाऽशुचिविमर्दनम् । कार्यमित्याभिरेकोऽस्तु, सर्वाभिस्तनयो मम ॥७८॥ इति बुद्धयाऽऽद ताः सर्वा गर्भोऽभूत् कुक्षिरेधत । देवं स्मृत्वा सव्यथाऽस्थात्कार्योत्सर्गे स आययौ । ७९ । कथिते कारणे देवोऽवदद्दुष्ठु कृतं त्वया । एकायुषो भविष्यन्ति, द्वात्रिंशत्तनयास्तव ॥८०॥ जहे देवः परं पीडां पूर्णे कालेऽभवन् सुताः । आसन् सवयसस्तेऽपि, रथिकाः श्रेणिकप्रभोः । ८१ । देवदत्ता इति ख्याता, इतो वैशालिकापुरि । चेटको हैहयकुलः, क्ष्मापोऽन्यान्यप्रियोद्भवाः ।८२ । पुत्रिकाः सप्त तस्याऽऽसन्, प्रभावती मृगावती । पद्मावती शिवा ज्येष्ठा, सुज्येष्ठा चिल्लणेति च । ८३ । चेटकस्त्वतिसुश्राद्धो, निषिद्धान्यविवाहनः । न पुत्रीरपि कस्यापि दत्ते ताः किन्तु मातृभिः ॥८४ । प्रभावती वीतभये, दत्तोदायनभूभुजः । पद्मावती च चम्पायां, दधिवाहनभूपतेः ॥८५ । मृगावती च कौशाब्यां, शतानीकमहीपतेः । उज्जयिन्यां शिवादेवी, प्रद्योताख्यक्षमाभृतः । ८६ । कुण्डग्रामे पुनर्ज्येष्ठा, नन्दिवर्धनभूभृतः । सुज्येष्ठा चेल्लणा चेति, कुमार्यौ द्वे च तिष्ठतः ॥८७॥ ताभ्यां परिव्राजिकेका, दिशन्ती धर्ममात्मनः । निःप्र [प्रश्न व्याकृतिः कृत्वा, निरस्ता मुखमोटनैः १८८ | • परविवाहकरणस्य प्रत्याख्यानमासीत् तस्मात् मातृभिः दत्ताः इत्यर्थः । ****************************** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाSs सेविता (५) सुलसा श्राविका । गाथा - १२८४ ८७९ [३७५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy