SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः तासु त्वां या जयेद् दृष्ट्या, तामाख्याहि ममाग्रतः । तथाकृते शिवाऽजैषीत्तं दृशाऽन्यास्त्वधोदृशः ।५४ । राज्ञोचे मां शिवाऽजैषीत्सोऽभणनिश्यनावृता । कुर्यात्कूरबलिं भूताद्यानने कूरपूरणात् ५५ । कृतं त्रिकादो तद्विष्वग्निवृत्तं चाऽशिवं क्षणात् । चतुर्थोऽथ वरो लेभेऽभयोऽभाणीत्ततो नृपम् ।५६। वरान् प्रयच्छ मे स्वामिन् ।, वृणु पुत्रावदत्ततः । गजेऽनलगिरी देव !, मिण्ठे भवति भपतो ।५७। अग्निभीरुरथदले:, कारयित्वा चितां विभो!। शिवोत्सङ्गगतस्तत्र, प्रविशामीति देहि मे ॥५८। राजोचे न मया दातुं, शक्यन्तेऽमी बरास्ततः । उक्तः सत्कृत्य याहि त्वमथोवाचाभयस्त्वया ।५९। धर्मच्छलेनाऽऽनीतोऽहं, नाहि त्वां तु हरामि चेत् । रटन्तं पुरमध्येन, प्रविश्याम्यनलं ततः ।६०। इत्युक्त्वाऽऽदाय भार्या स्वां, ययौ राजगृहेऽभयः । स्थित्वा कालं तत्र किञ्चित्सुरूपं गणिकाद्वयम् ।६१। गृहीत्वाऽगाद्वणिग्वेषः, सचिवोऽवन्तिपत्तने । उपराजगृहं हट्टे, तस्थौ मालेऽङ्गने च ते ।६२। प्रद्योतेनान्यदा दृष्टे, ते ताभ्यां सोऽपि सस्पृहम् । सविलासदृशा दृष्टः, प्रेषीतीं तदन्तिके ।६३। त्र्यहेण बोधिते ते चावोचतां सप्तमेऽहनि । आगन्तव्यं गवाक्षेण, गुप्तेनैकेन भूभुजा ।६४ । अभयेन कृतोऽस्त्यग्रे, भृत्यः प्रद्योतनामकः । ग्रहिलो मञ्चके बद्ध्वा, नीयते वैद्यवेश्मनि ।६५। आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता । ८७७ गाथा-१२८४ ८७७. [३७३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy