________________
आवश्यकनियुक्तिः श्रीतिलकाचा लघुवृत्तिः
८७४
लोहजङ्गो लेखहारी, अग्निभीरुस्तथा रथः । स्त्रीरलं च शिवादेवी, गजोऽनलगिरिः पुनः ।१९। लोहजनोऽन्यदाऽगच्छद्धृगुकच्छं नृपाज्ञया । दध्यौ तदीशोऽह्रत्येष, पञ्चविंशतियोजनीम् ।२०। मुहुराहातुमायाति, मार्यतेऽसौ ततश्छलात् । एवमेष्यति नैवान्यः, सुखं भवेत्ततः स्थितिः ।२१ । स दत्तं शम्बलं नेच्छदथ वीथ्यामदापयत् । हृत्वान्यत्तस्य पाथेयं, मोदकान् विषभावितान् ।२२। स मार्गे भोक्तुमासीन:, शकुनैस्त्रिर्निवारितः । क्षुधितोप्यगमद्राज्ञो, राजकार्य न्यवेदयत् ।२३। क्षुधितागममाख्यञ्च, राज्ञाऽऽहूयाऽभवोऽथ तत् । आख्यातमभयोप्याख्यद्, गन्धाद्यैः शम्बलस्थितम् ।२४। संमूर्छितं दृग्विषाहिं, विषसंयोगसम्भवम् । तत्रोदघाटयिष्यश्छेदमरिष्यत् तदीक्षितः ।२५। । मन्त्र्यादेशाद्वने मुक्तः, पराङ्मुखोऽदहवनम् । स मुहूर्तान्मृतस्तुष्टो, राजा वरममोचनम् ।२६। अभयस्य ददो सोऽपि, तमूचेऽस्तु तवान्तिके । सुता वासवदत्ताऽभूमण्डप्रद्योतभूभुजः ।२७। शिक्षिता सा कलाः सर्वा, गान्धर्व्यदयनस्तदा । न बद्धमपि वेत्ति स्वं, तस्मिन् गायति कुञ्जरः ।२८। विधाय संग्रहीतुं तं, प्रद्योतो यन्त्रहस्तिनम् । पादमध्यस्थसुभटं, तद्देशान्ते व्यचारयत् ।२९। नागरः कथिते तस्मिन्त्रागत्योदयनो जगौ । स्थित: करी स निःसृत्यान्तर्भटैस्तत्क्षणाद्धृतः ।३०।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या द्वात्रिंशता योगसङ्ग्रहैः ग्रहणासेवनशिक्षाद्वयाऽऽसेविता । (५) वासवदत्ता। गाथा-१२८४
८७४ [३७०]
華樂華華華華華華華華藥業準準準