SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः RRRRRRRR तदोज्झका भवेताग्रे, दृष्ट्वा यान्तं महागिरिम् । दृष्ट्वा तमुज्झनारम्भं, महागिरिरथागतः ।७। तदशुद्धमिति ज्ञात्वा, वलित्वोचे सुहस्तिनम् । अभ्युत्थानगुणाख्यानैरशुद्धिर्विदधे त्वया ।८। अथ द्वावपि वैदेशी, सगच्छो जग्मतुर्गुरू । तत्राजितप्रतिनिधि, वन्दित्वा श्रीमहागिरिः ।९। गजानपदवन्दारुरेलकच्छपुरं ययौ । तद्दशार्णपुरं पूर्वमासीत्तस्मिन्नुपासिका ।१०। चक्रे वैकालिकं नित्यं, प्रत्याख्याति स्म चाथ सा । उपाहसत्पतिस्तस्याः, सायं भुक्तः परोऽपि किम् ॥११॥ निश्यद्यात्सोऽपि भुक्त्वाह, प्रत्याख्याम्यहमप्यतः । भक्ष्यसि त्वं तयेत्यूचे, न भक्ष्यामीति सोऽवदत् ।१२। देवताऽचिन्तयच्छ्राद्धामसावुपहसत्यत: । निशीथे स्वसृरूपेणाभ्यागादादाय लाभनम् ।१३।। खादनिषिद्धः पत्न्योचे, किमेतञ्चालजालकः । देवता तं प्रहत्याथ, दृग्गोलो भुव्यपातयत् ।१४। मा भन्ममायशः श्राद्धा, कायोत्सर्गेऽथ सा स्थिता । देवता स्माह तां श्राद्धाप्युवाचैवं ममायशः ।१५। साऽथाऽऽनीयाऽऽदधौ सद्यो, मारितैडकचक्षुषी । एडकाक्षस्तत: ख्यातः, स श्राद्धः प्रत्ययादभूत् ।१६। लोकः समेति तं द्रष्टुमेडकाक्षं कुतूहलात् । एडकाक्षं पुरमपि, तन्नाम्ना तदभूत्ततः ।१७। गजानपदतोत्पत्तिः, शैलस्यैवमभूत्पुनः । गर्वं दशार्णभद्रस्य, हत्तुं शक्रः समागतः ।१८। १. 'दृष्टियुग्मं व्यपातयत्' प, । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या द्वात्रिंशता * योगसङ्ग्रहः। * ऐहिकफलान* पेक्षतपः कारिता।(४) *आर्यमहागिरिः। * गाथा-१२८३ ८७० ८७० [३६६] ******** 藥華藥業華華華華華華華
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy