________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
८६९
खेदस्तस्याप्यभूद्राज्ञः शक्रेणैवं च भेषितः । ऋषिघातक ! वध्योऽसि, चेत्प्रव्रजसि मुच्यसे |४ | स तदैव प्रवव्राजाऽभिग्रहं चात्तवानमुम् । भिक्षागतः स्मरिष्याम्येतद्भोक्ष्ये तदा न हि ॥५॥ त्यजामि चार्द्धभुक्तेऽन्यदेवं नाऽभुक्त जातु सः । द्रव्यापत्तस्य भावापज्जाता दण्डमुनेः पुनः | ६ | तुर्यमनिश्रतोपधानद्वारमाह -
पाडलिपुत्त महागिरि, अज्जसुहत्थी य सिट्ठि वसुभूई । वइदिसि उज्जेणीए जियपडिमा एलकच्छं च ।।१२८३ ।। शिष्यौ द्वौ स्थूलभद्रस्य, महागिरिसुहस्तिनौ । महागिरिर्महासत्त्वो, गणं दत्त्वा सुहस्तिनः ॥ १ । जिनकल्पव्यवच्छिन्नेप्यभ्यासे तस्य वर्त्तते । विहारेणान्यदैतां तौ, पाटलीपुत्रपत्तनम् ॥२॥ तत्र श्रेष्ठी वसुभूतिः, सुहस्तिप्रतिबोधितः । श्रावकोऽभूदथाऽवादीद्बोध्यन्तां स्वजना मम ॥ ३ ॥ ततः सुहस्ती तद्रे, गत्वा धर्ममुपादिशत् । महागिरिस्तदा तत्राऽऽयासीद्धिक्षाकृतेऽथ तान् ॥४॥ दृष्ट्वोत्तस्थौ सुहस्ती द्राग्वसुभूतिरथाऽब्रवीत् । गुरवो वोप्यमी तेऽथ, चक्रुस्तद्गुणसंस्तवम् ॥५ । एवमावेद्य तेषां ते प्रदायाणुव्रतान्यगुः । वसुभूतिर्द्वितीयेऽह्नि, स्वजनानूचिवानिति ॥ ६ ।
१. 'मुच्यते' ख २. 'दागातां' ख ल ।
*****************************
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
द्वात्रिंशता
योगसङ्ग्रहैः । ऐहिकफलानपेक्षा
तपः कारिता । (४) आर्यमहागिरिः । गाथा - १२८३
८६९
[३६५ ]