SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ मेरो आवश्यक-* नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः कषायेषु क्रोधे उदाहरणं - वसन्तपुरे वास्तव्यः, कश्चिदुत्सन्नवंशकः । देशान्तरं व्रजन् सोऽथ, भ्रष्टोऽगाद्धौतपल्लिकाम् ॥१॥ यमाख्यस्तापसस्तत्र, स तत्पाद्येऽग्निकोऽगमत् । प्रपत्रस्तस्य शिष्यत्वं, स घोरं तप्यते तपः ।२। जमशिष्योऽग्निक इति, जमदग्निरिति श्रुतः । इतश्च जैनमाहेशावभूतां द्वो सुरो दिवि ।३। स्वस्वधर्म प्रशंसन्तावूचतुः साधुतापसी । परीक्षा युज्यते धर्म, कर्तमेकत्र तत्त्वधीः ।४। ऊचे श्राद्धः परीक्ष्यो नः, शैक्षो वस्तापसोत्तमः । अथ तावागतौ स्वर्गान्मर्त्यलोके परीक्षितुम् ।५। अग्रेच मिथिलापुर्या, राजा पद्यरथस्तदा । व्रतार्थी याति चम्पायां, वासुपूज्यजिनान्तिके ।६। गच्छतस्तस्य राजर्षेः, समुत्क्षिप्ते सति क्रमे । सर्वतः सूक्ष्ममण्डूक्यः, क्रियन्ते स्म निरन्तराः ।७। स उत्क्षिप्ताहिरेवाऽस्थाजीवहिंसाभयात्प्रधीः । धीरश्चक्षोभ नो मेघकुमारप्राग्भवेभवत् ।८। द्वियाम्या तन्मनो ज्ञात्वा, तौ ताः संहत्य जग्मतुः । जमदग्नेः परीक्षार्थ, पुरातनमहाऋषेः ।९। कृत्वा चटकयुग्मस्य, रूपं तत्कूर्चपञ्जरे । स्थित्वोचे चटकः कान्ते !, याम्यहं हिमवगिरिम् ।१०। सोचे त्वं नैष्यसि ततो, लुब्धस्तञ्चटिकान्तरे । स चक्रे शपथान् गाढात्र प्रत्येति तथापि सा ।११। १. 'मेघकुमारः' ल । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे क्रोधे जमदग्निकथा। गाथा-९१८ 業業業藥藥 ५२२ ५२२ 華藥業華雜業 景黛紧紧紧紧器紧紧紧紧靠! [१८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy