SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ५२१ पत्र गतः साधुष्ट्वा तं बदुरीर्ष्यया । जघान लेष्टुभिर्दुष्टं ज्ञात्वा तमपि सोऽदहत् । १२ । अकामनिर्जरायोगाद्राजा तंत्रैव सोऽभवत् । जाती: सस्मार नन्दाद्यास्ततो दध्यौ भयद्रुतः ।१३। कथञ्चिद्यदि जाने तं, क्षमयाम्यधुनाऽपि तत् । तज्ज्ञानोपायभूतां च, समस्यां स व्यधादिमाम् ॥१४ ॥ गङ्गायां नाविको नन्दः, सभायां च गृहोलकः । मृतगङ्गातटे हंसः, सिंहश्चाञ्जनपर्वते । १५ । बदुर्वाराणसीपुर्यां राजा तत्रैव चाऽभवत् । य एतां पूरयेत्तस्मै, राज्यार्द्ध वितराम्यहम् ॥१६ ॥ पठन्ति तत्र सर्वेऽपि, समस्यां तामिमां जनाः । विहरन् सोऽपि तत्रैवाऽऽगत्याऽऽरामे मुनिः स्थितः | १७ | तां चाऽऽरामिकपठितां श्रुत्वा साधुरपूरयत् । एतेषां घातको यश्च, सोऽप्यत्रैव समागतः । १८ । अधीत्यारामिकस्तांस, पठति स्म नृपाग्रतः । राजा मुमूर्च्छ तच्छ्रुत्वा, जघ्नुरारामिकं जनाः । १९ । सोऽवदन मयाऽपूरि स्वस्थो राजा जगाद तम् । केनेयं पूरिता ब्रूहि, स स्माहाऽऽगन्तुसाधुना ॥ २० ॥ नृपस्तत्र नरान् प्रेषीत्, सुप्रसन्ना[न्नाः] स्थ चेन्मयि । तदेत्य त्वत्पदोपान्तं नमामि क्षमयामि च ॥ २१ ॥ अनुज्ञातोऽभ्येत्य नत्वा, श्राद्धोऽभूद्देशनाश्रुतेः । अथाऽऽलोच्य प्रतिक्रान्तो, निर्वृतिं साघुरप्यगात् ।२२। १. 'सुप्रसन्नाथ' ल । ******** ********** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे द्वेषे धर्मरुचिकथा | गाथा - ९९८ ५२१ [१७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy