SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. नमस्कार नियुक्तिः । * वस्तुद्वारे द्वेषे धर्मरुचिकथा । गाथा-९१८ द्वेषे उदाहरणं - लोकेन बहुना सार्द्ध, नावा धर्मरुचिं मुनिम् । गङ्गामुत्तारयामास, नन्दनामकनाविकः ।१। लोकोऽगादातरं दत्वा, मुनिस्तेन धृतः पुनः । भिक्षावेला व्यतिक्रान्ता, स तथाऽप्यमुचन्न तम् ।२। अमुच्यमानो रुष्टः स, मुनिर्दग्विषलब्धिकः । आलोक्य क्रूरया दृष्ट्या, तमघाक्षीत् पलालवत् ।३। काऽपि ग्रामे सभायां सोऽभवन्मृत्वा गृहोलकः । सोऽपि साधुर्गतस्तत्राऽविशद्भोक्तुं च तां सभाम् ।४। गृहोलकोऽपि तं दृष्ट्वा, कोपेनाऽभूज्वलत्रिव । भुञ्जानस्य मुनेरूध्वं, चिक्षेपाऽवकरं ततः ।५। स मुनिर्यत्र यत्राऽऽस्ते, तत्र तत्र तथैव सः । मुनिख़त्वा स एवाऽयं, 'नन्द' इत्यदहत्तथा ।६। गङ्गा विशति पाथोधि, वर्षे वर्षेऽपराध्वना । वाहस्तत्र चिरत्यक्तो, मृतगङ्गेति कथ्यते ।७। हंसोऽभून्मृतगङ्गायां, स नन्दात्मा गृहोलकः । कर्मधर्मसमायोगात्सार्थेन सममन्यदा ।८।। साधुः सञ्चरमाणः स, महात्मा तेन वर्त्मना । माघमासेऽवसत्तत्र, हंसस्तं प्रेक्ष्य सोऽकुपत् ।९। पक्षी भृत्वाऽथ नीरेण, सीकरैरसिचन्मुनिम् । दग्धस्तत्राऽपि मृत्वा स, सिंहोऽभूदञ्जनाचले ।१०। सोऽगात्तत्राऽपि सार्थेन, सिंहस्तं रुषितोऽभ्यगात् । दग्धस्तेन तथैवाऽसो, वाराणस्यामभूद् बटुः ।११। ५२० ५२० [१६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy