SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः एषणासमितौ कथा - मगधेषु नन्दिग्रामे, गोतमः कणवृत्तिकः । तत्पत्नी धारिणी तस्या, गर्भे पाण्मासिके पिता ।। मृतो मातापि जाते च, मातुलेन स वर्धितः । नन्दिषेणाभिधस्तस्य, गृहे कर्म चकार सः ।। प्रतारितः स लोकेन, मातुलेन स्थिरीकृतः । मा श्रौषीर्लोकवाक्यानि, तिस्रः सन्ति सुता मम ।३। दास्यामि तव नैषुस्ताः, कुरूपमिति तं परम् । निर्वित्रः(ण्णः) सोऽथ निर्गत्य, मुमूर्षुर्वीक्ष्य कुत्रचित् ।४। नन्दिवर्धनसूरीणां, सन्निधो व्रतमग्रहीत् । स षष्ठक्षपकः ख्यातयश:कीर्तिरभून्मुनिः ।५।। वैयावृत्येऽभिग्रही चचाल ग्लानादिसाधुषु । शक्रोऽशंसत्तमेकोऽथाऽश्रद्दधानः सुरोऽभ्यगात् ।६।। चक्रे श्रमणरूपे द्वे, बहिरेकोतिसारकी । स्थितो अगादपरो मध्ये, साधूपान्तेऽब्रवीदिदम् ।७। ग्लानर्षिः पतितोऽस्त्येको, वैयावृत्यकरोऽस्ति चेत् । स उत्तिष्ठतु तच्छ्रुत्वा, षष्ठपारणकेऽपि हि ।८। सहसा नन्दिषेणर्षिर्मुक्त्वा कवलमुत्थितः । ऊचेऽर्थः केन सोऽवादीजलेनाऽगात्स तत्कृते ।। अनेषणां सुरश्चक्रेऽनेषणीयं न सोऽग्रहीत् । भ्रान्त्वा द्विस्त्रिः स शुद्धाम्भो, गृहीत्वाऽगात्तदन्तिके ।१०। आचुक्रोश स तं ग्लानो, मुनिनिष्ठुरया गिरा । त्वं वैयावृत्यकारीति, शून्यो नाम्नेव वर्त्तसे ।११। १. 'सः' ख । २. 'मुनि नि' प, ख । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या पञ्चसमितिषु कथाः । गाथा-१२७१ ८०२ ८०२ [२९८] KEE*
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy