________________
आवश्यक
निर्मुक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
७९९
अंबरलोहमहीणं, कमसो जह मलकलंकपंकाणं । सुज्झावणयणसोसे, साहंति जलानलाइच्चा ।९७। वस्त्रलोहार्द्रक्षितीनां क्रमशो मलकलङ्कपङ्कानां शोध्यपनयनशोषान् जलानलादित्याः साधयन्ति । ९७ । तह सुज्झाइसमत्था, जीवंबरलोहमेइणिगयाणं । झाणजलानलसूरा, कम्ममलकलंकपंकाणं । ९८ । तथा जीवाम्बरलोहमेदिनीगतानां कर्ममलकलङ्कपङ्कानां ध्यानजलानलसूराः शोध्यादिसमर्था भवन्ति । ९८ । तावो सोसो भेओ, जोगाणं झाणओ जहा निययं । तह तावसोसभेया, कम्मस्सवि झाइणो नियमा । ९९ ।
तापस्ततः शोषस्ततो भेदोऽन्यथात्वं योगानां कायादीनां यथा ध्यानान्नियतं स्युः, दुर्बलिकापुष्पमित्रादेरिव तथा तापशोषभेदाः कर्मणोऽपि ध्यायिनः स्युः ।। ९९ ।।
जह रोगासयसमणं, विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं, झाणाणसणाइजोगेहिं । १०० ।
י
यथा रोगाशयशमनं विशोषणविरेचनौषधविधिभिः, तथा कर्मामयशमनं ध्यानानशनादियोगैस्तपोरूपैः ।। १०० ।। किञ्च -
-
जह चिरसंचियमिंधण-जलणो पवणसहिओ दुयं डहइ । तह कम्मिंधणममियं, खणेण झाणानलो डहइ । १०१ ।
स्पष्टा ।। १०१ ।।
१. 'विसोहणं' ल । २. 'रोगाश्रय... ' पलख छ प । ३. 'विशोधन' ल । रोगाशयशमनं रोग निदानचिकित्सा ।
********
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या ध्यानशतकम्
ध्यानफलम् ।
गाथा - १२७१
७९९ [२९५]