________________
आवश्यक- नाणे निशब्भासो, कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो, तो झाइ सुनिञ्चलमईओ ।३१। नियुक्तिः
* 'ज्ञाने' श्रुतज्ञाने कृताभ्यासः । 'करोति मनसो धारणं' अशुभव्यापारनिरोधेनावस्थानम् । विशुद्धिं च सूत्रार्थयोः । ज्ञानगुणेन ज्ञातः सारो * श्रीतिलकाचार्य
पचाय- विश्वस्य येन स तथा । ततो ध्यायति सुनिश्चलमतिकः ।।३१।। दर्शनभावनामाह - लघुवृत्तिः
संकाइसल्लरहिओ, पसमत्थिज्जाइगुणगणोवेओ । होइ असंमूढमणो, दंसणसुद्धीइ झाणंमि ॥३२॥
प्रशमादिः प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यरूपः । 'स्थैर्य' जिनशासने निश्चलत्वं तदादिर्गुणगणस्तेनोपेतः । दर्शनशुद्ध्या ध्याने*ऽसंमूढमना भवति ।।३२।। चारित्रभावनामाह -
नवकम्माणायाणं, पोराणविणिजरं सुभायाणं । चारित्तभावणाए, झाणमजत्तेण य समेइ ।३३। ।
नवानां कर्मणामनादानं यस्मात् तत् तथा पुराणविनिर्जरम् । 'शुभानां' पुण्यशातादीनां चादानम् । चारित्रभावनया ध्यानं अयत्नेन समेति * प्राप्नोतीत्यर्थः ।।३३।। वैराग्यभावनामाह -
सुविइयजगस्सभावो, निस्संगो निभओ निरासो य । वेरग्गभावियमणो, झाणंमि सुनिश्चलो होइ ।३४।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । धर्मध्यानस्य भावना । गाथा-१२७१
XXXXX
७८३ [२७९]
१. 'विनिर्जराम्' ख ।