SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः 'इच्छामि पडिक्कमिउं पगामसिज्जाए निगामसिज्जाए' अस्यार्थः । रात्रौ चतुरोपि यामान् अध्वखेदादौ वा दिवापि, प्रगतः 'कामः' स्वाध्यायाद्यभिलाषो यस्यां शय्यायां शयने सा प्रकामशय्या । निकामशय्या निकाममत्यर्थं दीर्घनिद्रायामिवाचेतनस्य शय्या निकामशय्या, सा न युज्यते महाप्रमादरूपत्वात् । ततस्तस्याः प्रतिक्रमितुं निवर्त्तितुमिच्छामि अभिलषामि । तस्यां हि सत्यां 'संथाराउअत्तणाए परियत्तणाए आउंटणाए पसारणाए छप्पइया* संघट्टणाए' पूर्वं प्रमृज्य सुप्तस्य पश्चादचेतनत्वात्पार्श्वभूम्यप्रमार्जनेन, संस्तारकादन्यपार्श्वेन स्थानं 'उद्वर्तना' तया । पुनर्द्वितीयपार्श्वेन * स्थानं 'परिवर्तना' तया 'आकुञ्चनया' अप्रमृज्याङ्गसङ्कोचक्रियया । 'प्रसारणया' अप्रमृज्याङ्गविस्तारणया । षट्पदिकानां 'सट्टनया' शिरसः * कण्डूयनक्रियायां अप्रमृज्य वपुषो वा नखकरमर्द्दनेन । तथा 'कुइए कक्कराइए छीए जंभाईए आमोसे ससरक्खामोसे' 'कूजिते काशिते कर्करायिते' 'विषमा विरूपा वा शय्याऽभूदित्यादिदोषाणां जाग्रदवस्थाचिन्तितानां रूषणे । 'क्षुते जृम्भिते' एतेषु मुखे हस्तं मुखवस्त्रिकां वा अदत्वा कृतेषु । 'आमर्षे' अप्रमृज्य हस्तादिना निकटभूस्पर्शे । 'सरजस्कामर्षे' सरजस्कं पृथ्व्यादिरजःस्पृष्टं यद्वस्तु निद्रामूढत्वात् हस्तपादादिना तस्य स्पर्शे । तथा 'आउलमाउलाए सूयणवत्तियाए इत्थीविप्परियासियाए दिट्ठीविप्परियासियाए मणविप्परियासियाए पाणभोयणविप्परियासियाए' अत्र विराधनयेति विशेष्यं गम्यम् । तथेहाद्ये द्वे पदे अग्रेतन पदचतुष्टयं व्याख्याय १. 'झुषणे' ल.ल.पप छ । ७६७ आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या । गाथा - १२७१ ७६७ [२६३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy