________________
आवश्यक
नियुक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
७६४
************
*****
अथ देवसिकातिचाराणामोघातिचाराणां प्रतिक्रमणार्थमाह । 'इच्छामि पडिक्कमिडं जो मे देवसिओ अइयारो कओ' इत्यादि । अस्यार्थः । 'इच्छामि' अभ्युपगच्छामि युष्मद्वचः आलोचयामि पूर्वमभ्युपगतमर्थं क्रियया दर्शयामि ।
-
आलोचनामेव साक्षात्कारेणाह 'जो मे देवसिओ' इत्यादि यो मया दैवसिकोऽतिचारः कृतः, कायिको वाचिको मानसिकः । 'उत्सूत्रः ' सिद्धान्तविरुद्धः । 'उन्मार्गः' क्षायोपशमिकभावरूपं मार्गमतिक्रम्य औदयिकभावेन कृत इत्यर्थः । 'अकल्पो ऽकल्पनीयः 'अकरणीयो' ऽकृत्यः हेतुहेतुमद्भावश्चात्र यत एव उत्सूत्रोऽत एव उन्मार्गः । यत एव उन्मार्गोऽत एवाऽकल्पनीयः । यत एवाऽकल्पनीयोऽत एवाऽकरणीयः । तथा 'दुर्ध्यात' एकाग्रचित्ततया, आर्त्तरौद्रलक्षणः । 'दुर्विचिन्तितः' अशुभ एव चलचित्ततया; 'जं थिरमज्झवसाणं तं झाणं, जं चलं तयं चित्तं' इति वचनात् । यत एवेत्थंभूतोऽत एवानाचारो । यत एवानाचारोऽत एवाऽनेष्टव्यः । आस्तां तावत्कर्तव्यः यत एवाऽष्टव्योत एवाऽ श्रमणप्रायोग्यः श्रमणानुचित इत्यर्थः । 'ज्ञाने दर्शने चारित्रे' ज्ञानदर्शनचारित्रविषये । भेदेनाह 'श्रुते' श्रुतविषये, विपरीतप्ररूपणाऽकालस्वाध्यायादिकोऽतिचारः । 'सामायिके' सम्यक्त्वसामायिकसर्वविरतिसामायिकविषये 1 तत्र सम्यक्त्व सामायिकातिचारः शङ्कादिः । सर्वविरतिसामायिकातिचारं तु भेदेनाह 'तिसृणां गुप्तीनाम्' अयथावस्थितकरणेन । 'चतुर्णां कषायाणाम्, प्रतिषिद्धानां क्रोधादीनां करणेन । 'पञ्चानां महाव्रतानां' प्राणातिपातविरत्यादीनाम्, षण्णां जीवनिकायानां पृथिव्यादीनाम्, 'सप्तानां पिण्डेषणानां' असंसृष्टादीनां तत्राऽसंसृष्टा' - असंसृष्टाभ्यां हस्तमात्रकाभ्यां दीयमाना भिक्षा | १ | संसृष्टाभ्यां तु संसृष्टा ॥२। 'उद्धृता'
************
********
आ.नि. प्रतिक्रमणाध्ययनम्
सूत्रव्याख्या । गाथा - १२७१
७६४ [२६०]