________________
आवश्यक- अत्र पर: प्राह कथं निरतिचारैः प्रतिक्रम्यते । आचार्यः अत्र वैद्येन दृष्टान्तः ।
आ.नि. नियुक्तिः एकस्य नृपतेरेकस्तनुजोऽतीववल्लभः । स दध्यौ माऽस्य रोगोभूचिकित्सां कारयामि तत् ।।
प्रतिक्रमणाश्रीतिलकाचार्यआकार्य वैद्यानूचे स, चिकित्सत सुतं मम । यथास्य नैव रोगः स्यादूचिरे तैः करिष्यते ।२।
ध्ययनम् लघुवृत्तिः राजोचे कीदृशाः कस्य, योगा एकोऽवदत्ततः । रोगाः स्युश्चेनिवर्तन्ते, न स्युश्चेन्मारयन्ति तम् ।३।
* प्रतिक्रमितव्यम् द्वितीयः स्माह रोगश्चेद्भवेत्तदुपशाम्यति । नो चेद्गुणं वा दोषं वा, न किञ्चिदपि कुर्वते ।४।
निरतिचारस्य तृतीयोऽभिदधे रोगः, स्यावेत्तदुपशाम्यति । न स्याचेद्वर्णलावण्यतया परिणमन्ति ते ।५।
* प्रतिक्रमणे राज्ञा तृतीयवैद्येन, कारिता वैद्यकक्रिया । नीरोग: समभूद्दिव्यरूपलावण्यवर्णभाक् ।६।
वैद्यदृष्टान्तः। ७६३ एवं प्रतिक्रमणेपि, स्याद्दोषश्चेद्विशुध्यति । न स्याचेञ्चरणस्यैव, शुद्धिः शुद्धतरा भवेत् ।७। ।
गाथा-१२७१ एवमुक्तं सप्रसङ्गं प्रतिक्रमणम् । अथ सूत्रस्याऽवसरः । इह च सर्वं पञ्चपरमेष्ठिनमस्कारपूर्वकं कर्म कर्तव्यमित्यादौ स पठ्यते । * समताभावेन च प्रतिक्रन्तव्यमित्यत: सामायिकसूत्रं 'करेमि भंते सामाइयं सव्वं सावजमित्याधुञ्चर्यते । तदनन्तरं च मङ्गलपूर्वकं *
७६३ * प्रतिक्रन्तव्यमिति सूत्रकार एव तदाह । चत्तारि मंगलमित्यादि । स्पष्टम् ।
[२५९] १. 'न्निवृत्तेते' ल, । २. 'मारयेते' ख ।
१