________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
संसारपडिक्कमणं, चउब्विहं होइ आणुपुवीए । भावपडिक्कमणं पुण, तिविहं तिविहेण नेयव्वं ।।१२५२।। स्पष्टे । भावप्रतिक्रमणमाह - मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाई । जं मणवयकाएहिं तं भणियं भावपडिकमणं ॥१॥ स्पष्टा ।।१२५१-१२५२।। इह भवमूलं कषायास्तत्प्रतिक्रमणोदाहरणमाह - द्वौ साधू त्रिदिवं प्राप्ती, सङ्केत्तमिति चक्रतुः । प्राप्नोत्यादौ नरत्वं यः, प्रतिबोध्यः परेण सः ।१। पुरे लक्ष्मीपुरे नाम्ना, दत्तस्य श्रेष्ठिन: प्रिया । आराधयदभक्तार्थः, पुत्रार्थ नागदेवताम् ।। तया भविष्यतीत्युक्तं, तव स्वर्गागतः सुतः । तयोः स्वर्गतयोरेकश्युत्वा तस्याः सुतोऽभवत् ।३। नागदत्तेति दत्ताहो, द्वासप्ततिकलापटुः । गन्धर्वनागदत्तोऽसौ, ख्यातो गान्धर्वकोशलात् ।४। भुजङ्गकेलिव्यसनी, भवसौख्यं भुनक्ति सः । मुहुर्बोधयते देवो, न पुनः प्रतिबुध्यते ।५। देवोऽथाव्यक्तलिङ्गेनोपात्तसर्पकरण्डकः । उद्यानिकायां यातस्य, तस्य गच्छन्नदूरतः ।६। मित्रेरदर्शि देवार्य, दृश्यते सर्पखेलकः । गतस्तदन्तिकेऽप्राक्षीत्किमत्रास्ति सुरोऽवदत् ।७। सर्पाः सन्त्यत्र गन्धर्वनागदत्तस्तमूचिवान् । रमस्व मम सर्पस्त्वं, तव सर्परहं रमे ।८। •स्वर् गती प्राप्ती स्वर्गतो, तयोः स्वर्गतयोः ।
आ.नि. प्रतिक्रमणा
ध्ययनम् प्रतिक्रमितव्यम् भावप्रतिक्रमणे
कथा नागदत्तः। गाथा-१२५२
७५७
藥華藥業樂樂準準準準準準準準
FEf
७५७ [२५३]