SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ७५२ मा कार्षीर्जातु तद्गर्वं यथाहं सुबहुश्रुतः । यदि वोत्तमचारित्रा, येन ते सुगतिर्भवेत् ॥५५ ॥ द्रव्यगर्हायां पतिमारिकादृष्टान्तः । 1 एकत्राऽध्यापको विप्रस्तस्यासीत्तरुणी प्रिया । ऊचे भर्त्ता बलिं देहि, काकेभ्यः साप्यवोचत । १ । बिभेम्यहमिति छात्रा, उपाध्यायनिदेशतः । रक्षन्ति वारकेणैतां तत्रैकोऽचिन्तयत्प्रधीः |२| न मुग्धा किन्त्वसत्येषा, स तचरितमीक्षते । नर्मदापरकूले च, गोपेन सममस्ति सा ॥ ३ ॥ नर्मदां निशि कुम्भेनोत्तरन्ती चास्ति साऽन्यदा । सन्त्युत्तरन्तश्चीराश्च तेष्वेको जलजन्तुना । ४ । आत्तो रटंस्तया प्रोचे, पिधेह्यस्याक्षि मुच्यसे । मुक्तस्तथाकृतेऽथोचे, कुतीर्थेनावतेर किम् ॥५ । सतच्छ्रुत्वा निवृतोऽथ, द्वितीयेऽहनि खण्डिकः । बलिं ददानां रक्षंस्तां, मन्दस्वरमवोचत | ६ | दिवा बिभेषि काकेभ्यो, रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जानासि, जलजन्त्वक्षिरोधनम् ॥७॥ सावदत्किं करोम्यत्र यत्रेच्छन्ति भवादृशाः । उपाचचार तं साथ, स ऊचेऽध्यापकात् त्रये ॥८ ॥ सा दध्यौ मारयाम्येतं, भर्तासौ स्याद्यथा मम । विनाश्य पिटके क्षिप्त्वा गताटव्यां तमुज्झितुम् ॥९॥ व्यन्तर्याऽस्तम्भि पिटकं, मूर्ध्ना साथ वनेऽभ्रमत् । गलत्युपरि मांसं तद्बाध्यमानाथ सा क्षुधा ॥१० ॥ ********** ******* आ.नि. प्रतिक्रमणाध्ययनम् प्रतिक्रमण पर्यायाः गर्हायां दृष्टान्तः पतिमारिका । गाथा - १२४३ ७५२ [२४८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy