________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
वीक्ष्यन्ते विद्यमानानि, न वीक्ष्यन्ते हतानि तु । अन्यामाह पुनः पृष्टा, क्वाप्येकस्य महीपतेः ।३२। सहस्रयोधी वैद्यश्च, रथकारो निमित्तवित् । चत्वारः सेवकास्तस्य, पुत्र्येका चास्ति सुन्दरी ।३३। हत्वा तां खेचरोऽनेषीज्ज्ञायते न क्वचिद्गतः । यो ममाऽऽनयते पुत्री, राजोचे तस्य तां ददे ।३४। निमित्त्याऽऽख्यदिशं चक्रे, रथकृद् व्योमगं रथम् । चत्वारोऽपि रथेनेयुः, साहस्रेण हतः खगः ।३५ । स कन्या हन्यमानोऽहन, वैद्योऽजीवयदौषधैः । चतुभिरपि सा निन्ये, चतुर्णामप्यदान्नृपः ३६। कन्योचे कथमेकापि, चतुर्णा स्यामहं पितः । ततोऽहं तस्य यः सार्ध, मया वह्रो प्रवेक्ष्यति ।३७। प्रविश्याऽऽदास्यतेऽग्नौ को, राज्युवाच हला! वद । साऽवदद्देवि! नो वेद्मि, तथैवाख्यत्परेऽहनि ।३८ । ज्ञात्वा निमित्ती प्रश्नाद्यैर्यथैषा म्रियते न हि । स्वीचक्रे तेन नान्यः स, चितां सह तयाऽविशत् ।३९। अग्नी लग्ने निःसृतौ तौ, प्राग् खानितसुरङ्गया । ततः स तामुपायंस्त, पृष्टाऽऽख्यदपरां कथाम् ।४०। स्त्रियैकयोत्सवे यान्त्या, सुवर्णकटकद्वयम् । कुतोऽप्ययाचि तेनार्पि, धृत्वा तन्मूल्यरूपकान् ।।१।। तयाऽक्षेपि सुताहस्ते, न पूर्णेऽप्युत्सवेऽर्पितम् । विस्मृत्याब्दानि जातानि, मागिता तेन साब्रवीत् ।४२। १. 'तेनापि प ल ल, छ ख ।
आ.नि. प्रतिक्रमणाध्यायनम् प्रतिक्रमणपर्यायाः निन्दायां दृष्टान्तः चित्रकरसुता। गाथा-१२४३
७५०
७५० [२४६]
| 樂樂樂藥業業樂
最靠靠靠靠靠靠