SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ऊचिरे केनचिन्नैवं, नष्टाः शोभिष्यथ क्वचित् । ततः प्रतिनिवृत्तास्ते, परानीकमभञ्जयन् ।६। प्रभुसंमानितास्तेऽथ, शोभन्ते स्म समन्ततः । एवं गीत्यर्थमाकर्ण्य, साधुरेवं व्यचिन्तयत् ।७। रणस्थानीया प्रव्रज्या, भग्नोऽहं विदितोऽधुना । भ्रष्टोऽयमिति हीलिष्ये, जनैरसदृशैरपि ।८।। ततः प्रतिनिवृत्तोऽभूद्, दृढधर्मो विशेषतः । आलोचितप्रतिक्रान्तो, गुरोरिच्छामपूरयत् ।९। अथ निन्दायां चित्रकरसुतोदाहरणम् । पुरे क्वापि नृपोऽन्येषां, राज्ञां चित्रसभा शुभा । मम नास्तीति विज्ञाय, कारयित्वा महासभाम् ।। समभागार्पिता चित्रकारिणां चित्रयन्ति ते । तत्रैकचित्रकृत्पुत्री, भक्तमानयते पितुः ।। राजाऽश्वेन रयेणेति, कष्टान्त्रष्टाथ सा तत: । तयानीते च भक्तेऽगादेहचिन्ताकृते पिता ।३। । केकिपिच्छं तयालेखि, वर्णकैस्तत्र कुट्टिमे । तदायातो नृपः कुर्वंस्तत्रैकाकी गतागतम् ।४। दृष्ट्वा मयूरपिच्छं तद्ग्रहीतुं वाहितः करः । नखशुक्तिश्च भग्नास्य, हसित्वा सावदत्ततः ।५। मूर्ख ! मञ्चस्त्रिभिः पादैर्नाऽस्थात्तुर्योऽधुना भव । राजापृच्छत्कथं सोचे, राजमार्गेऽद्य नि:कृष्कृित्पात् ।६। आगच्छतोऽतिजविना, तुरगेणाश्ववारत: । आनयन्ती पितुर्भक्तं, स्वपुण्यैर्जीविताऽस्म्यहम् ।७। "準準準準準準準準準準準準業華藥華藥業準準準準準準準準準 आ.नि. प्रतिक्रमणा ध्ययनम् प्रतिक्रमणपर्यायाः निन्दायां दृष्टान्तः चित्रकरसुता। गाथा-१२४३ ७४७ तापतुः ।। RRRRRY ७४७ [२४३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy