SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः ५११ द्रव्यप्रमाणादीन्यपि द्वाराणि वृत्तिकृता भावितानि । निर्युक्तिकृता तु नोक्तानि ।।८९५-८९६-८९७ ।। ततोऽत्र नियुक्तिकारोऽग्रेतनगाथया द्रव्यप्रमाणं क्षेत्रं स्पर्शना चेति द्वारत्रयमाह - पलियासंखिज्जइमो, पडिवन्नो हुज्ज खित्तलोगस्स । सत्तसु चउदसभागेसु, हुज्ज फुसणावि एमेव ।।८९८ ।। सूक्ष्मक्षेत्रपल्योपमाऽसङ्घयेयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारस्य पूर्वप्रतिपन्नाः सन्ति । ऊर्ध्वं क्षेत्रलोकस्य सप्तसु * चतुर्दशभागेषु । अधः पञ्चस्वित्यनुक्तमपि ज्ञेयम् । 'हुज्ज फुसणावि एमेव' नमस्कारवन्तः । 'एवमेव' एतावत्क्षेत्रं स्पृशन्तीत्यर्थः ।।८९८ ।। २ अथ कालद्वारमाह - एगं पडु हिट्ठा, तहेव नाणाजियाण सव्वद्धा । एक जीवं प्रतीत्य 'हिट्ठा' अधस्तात् षट्पदप्ररूपणायामिव नमस्कारस्य कालमानम् । नानाजीवान् प्रतीत्य तथैव प्राग्वत् सर्वाद्धासर्वकालम् । अन्तरमाह - अन्तर पडुचमेगं, जहनमंतोमुहुत्तं तु ।।८९९ ।। उक्कोसेणं चेयं, अद्धापरियट्टओ उ देसूणो । नाणाजीवे नत्थि य, भावे य भवे खओवसमे ।। ९०० ।। एकं जीवं प्रतीत्यान्तरं जघन्यमन्तर्मुहूर्तः, उत्कर्षेण चैतत् अद्धापरावर्त्तो देशोनः । नानाजीवान्प्रतीत्य नास्त्यन्तरं नमस्कारस्य । भावे ****** आ.नि. नमस्कार निर्युक्तिः । प्ररूपणा द्वारे नवपद प्ररूपणा । गाथा-८९८९०० ५११ [७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy