SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ७४४ ***** तुष्टस्तस्मै ददौ पुत्र, द्वितीयं प्रेषयत्पुनः । मयोक्तं दुग्धमानेयं, शीघ्राशीघ्रागतिर्न तु । ९ । द्रव्ये परिहरणेयं, भावे चोपनयः पुनः । तीर्थकृत्कुलपुत्रोऽभूचारित्रं पयसः पदे ॥१० ॥ तद्रक्षद्भिः प्रयत्नेन प्राप्या कन्येव निर्वृतिः । गोकुलं मानुषं जन्म, पन्थास्तत्र परं तपः । ११ । स्थविराणामनिकटो, निकटो जिनकल्पिनाम् । रक्षेत्र चारित्रपयोऽगीतार्थो जिनकल्पिकः | १२ | दुःप्रा [प्रा]पा निर्वृतिस्तस्य, स्खलितस्य कथञ्चन । प्राप्यान्यैस्तु शनैः सिद्धिश्चारित्रक्षीररक्षकैः ११३ | अथ वारणायां विषभोजनतडागेन दृष्टान्तः । पुरे क्वापि नृपः कोऽपि ज्ञात्वा परबलागमम् । ग्रामेषु भक्ष्यभोज्यादौ, मृष्टाम्भः स्थानकेषु च ॥१॥ | वृक्षपुष्पफलादौ च विषं सर्वेष्वयोजयत् । इतरस्त्वागतो राजा, तं ज्ञात्वा विषभावितम् |२| घोषयामास सैन्ये स्वे, भक्ष्यभोज्यान्यमूनि यः । मृष्टाम्भांसि फलादीनि, भोक्ष्यते स मरिष्यति |३| दूरादानीय भोज्यानि, क्षाराम्भः प्रभृतीनि च । उपभुञ्जीध्वमित्येतां, घोषणां निशमय्य ये ॥४॥ निवृत्ता जीवितास्तेऽत्र, सर्वेऽप्यन्ये पुनर्मृताः । द्रव्यतो वारणा ह्येषा, भावे चोपनयः पुनः ॥५ । १. 'द्रव्या पहिरणायं' ख 'द्रव्यतः परि...' ल । ************** ********: आ.नि. प्रतिक्रमणा ध्ययनम् प्रतिक्रमण पर्यायाः वारणायां दृष्टान्तः विषभोजनम् । गाथा - १२४३ ७४४ [२४०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy