________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
७४३
वणिक्वर्य इहाचार्य:, प्रासादः संयमः पुनः । आदिशत्प्रतिचर्योऽयमिति साधुजनस्य सः । ९ । सातगृद्धेन चैकेन, प्रत्यचारि न साधुना । स वणिक्पूर्वभार्येव, सञ्जातो दुःखभाजनम् । १० । प्रत्यचारि च येनाऽसौ प्रासादः संयमाभिधः । स निर्वाणसुखाभागी, जातः संसारपारगः । ११ । अथ परिहरणायां दुग्धकायेन दृष्टान्तः । 'दुग्धकायो' दुग्धघटकाययष्टिः ।
एकः कोऽप्यभवद्वामे, कुत्रापि कुलपुत्रकः । अन्यान्यग्रामयोस्तस्योदूढमस्ति स्वसृद्वयम् ।१ । तस्याभूद्दुहिता जाम्योः, पुत्रौ तेषां च यौवने । स्वस्वसूनुकृते जाम्यौ, पुत्र्यर्थं सममागते । २ । सोऽवदत्कस्य यच्छामि, पुत्र्येका तद्युवां सुतौ । अत्र प्रेषय तं दास्ये, ततः कृत्यविदः सुताम् ॥३॥ गते ते प्रेषितौ पुत्रौ, मातुलेन तदैव तौ । अर्पयित्वा घटावुक्तौ, दुग्धमानयतं व्रजात् ।४।
यष्टिं गृहीत्वा तौ, गतौ भृत्वा पयोघटान् । निवृत्तौ तानथादाय, तत्र चास्ति पथद्वयम् ॥५॥ दीयान् विषमः पन्था, दवीयांश्च समः पुनः । विषमं परिहृत्यैकस्तत्राचालीत् समाध्वना ॥ ६ । विषमेनापि नैकट्याचलति स्म द्वितीयकः । स्खलत्पदस्य तस्यैको, भग्नः कुम्भोऽपरोऽपि च ।७। भाजिता तेन रिक्त एवाथ सोऽभ्यगात् । समाध्वना शनैरन्यो, गृहीत्वा दुग्धमाययौ ॥८ ॥
******************************
आ.नि. प्रतिक्रमणा
ध्ययनम् प्रतिक्रमणपर्यायाः
परिहरणायां
दृष्टान्तः
दुग्धकायः । गाथा - १२४३
७४३ [२३९]