SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः अद्धाणे पासाए, दुद्धकाय विसभोयणतलाए । दो कत्राओ पइमा-रिया य वत्थे य अगए य ।।१२४३।। तत्र प्रतिक्रमणे अत्र दृष्टान्ताः । पुरे क्वापि नृपः कोऽपि, सोधं कर्तुमना बहिः । सूत्रमाच्छोटयव्ये, दिने न्यास्थञ्च रक्षकान् ।१।। ऊचे च यदि कोऽप्यत्र, प्रविशेन्मार्य एव स । अपसर्पत्पदैश्चेत्तैरेव मोच्यः पुमान् स तु ।२। व्याक्षिप्तानां च तेषां द्वौ, ग्राम्यौ प्राविशतां नरौ । रक्षकर्दूरगैर्दृष्टावुक्तो तैः कम्पितासिभिः ।३। अरे ! प्रविष्टौ किमिह, धृष्ट एकोऽवदत्तयोः । दोषः कोऽत्रेति निस्तृशैः, नश्यंस्तत्र हतः स तैः ।४। भीतो द्वितीयस्तेष्वेव, पदेष्वस्थाद् बभाण तान् । अजानन् प्राविशं मा मा, हत स्वादेशकारिणम् ।५। उक्तस्तैर्यदि तैरेव, पदैस्त्वमपसर्पसि । तन्मुक्तिस्ते स भीतोऽथ, तथा कार्षीदमोचि तैः ।६। भोगाभागी स संजज्ञेऽनाभागी चापरोऽभवत् । इयं द्रव्यप्रतिक्रान्तिर्भावे चोपनयः पुनः ।७। राजा तीर्थकरोऽध्वा च, संयमो रक्ष्य इत्यवक् । ग्राम्येणेव व्यतिक्रान्तः, स एकेन कुसाधुना ।८। स हतो रक्षक रागद्वेषाद्यः सुचिरं भवे । लभ्यते दुर्मतिर्जन्ममरणानि पुनः पुनः ।। १. 'अष्ट'ख, अधः ल । आ.नि. प्रतिक्रमणा ध्ययनम् प्रतिक्रमणपर्यायाः प्रतिक्रमणे दृष्टान्तः 'अध्वानः'। गाथा-१२४३ ७४१ RXXXXXXXXXXXXXXX ७४१ [२३७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy