SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्य लघुवृत्तिः ७४० ******** नामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो उ निवित्तीए, निक्खेवो छव्विहो होइ । । १२३९ ।। इयं वारणावत् स्वबुध्या ज्ञेया । प्रशस्तभावनिवृत्त्येहाधिकारः । । १२३९ । । निन्दनं निन्दा । तन्निक्षेपमाह - नामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो खलु निंदाए, निक्खेवो छव्विहो होइ ।। १२४० ।। 'द्रव्यनिन्दा' तापसादीनाम्, अनुपयुक्तसम्यग्दृष्टेर्वा । क्षेत्रनिन्दा यत्र क्षेत्रे सा वर्ण्यते क्रियते वा । 'कालनिन्दा' यत्र काले सा व्याख्यायते, दुर्भिक्षादेर्वा कालस्य । 'भावनिन्दा' अप्रशस्ता ज्ञानादिविषया प्रशस्ता ज्ञानाद्यावरणविषया तयेहाधिकारः । । १२४० ।। गर्हणं गर्हा परसाक्षिकी कुत्सा । सापि षोढेत्याह - नामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो खलु गरिहाए, निक्खेवो छव्विहो होइ ।। १२४१ ।। गर्हापि निन्दावत् ज्ञेया । प्रशस्तगर्हयेहाधिकारः । । १२४९ ।। शोधनं शुद्धिः । सापि षोढेत्याह - नामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो खलु सुद्धीए, निक्खेवो छव्विहो होइ । । १२४२ ।। द्रव्यशुद्धिरनुपयुक्तस्य सम्यग्दृष्टेः, सुवर्णस्य वा जलानलक्षारादिभिः । क्षेत्रशुद्धिर्यत्र सा वर्ण्यते क्रियते वा । कालशुद्धिर्यत्र काले सा वर्ण्यते, शङ्कादिभिर्वा कालस्य शुद्धिः क्रियते । भावशुद्धिः प्रशस्ता ज्ञानादेः, अप्रशस्ता क्रोधादेः प्रकटीकरणम् । इह प्रशस्तभाव - शुद्धयाऽधिकारः । ।१२४२ । । सम्प्रति द्रव्यप्रतिक्रमणादीनामष्टानां क्रमाद् दृष्टान्तानाह - ※渐渐渐 आ.नि. प्रतिक्रमणा ********* ध्ययनम् प्रतिक्रमण पर्यायाणां निक्षेपः निवृत्तिः * निन्दा गर्हा शुद्धिः । गाथा - १२३९१२४२ ७४० [२३६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy