SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आवश्यक- अधुना सूत्रव्याख्या । तदम् । इच्छामि खमासमणो वंदिलं जावणिजाए निसीहियाए इत्यादि । इह शिष्यो विधिवत्प्रति- आ.नि. नियुक्ति: लेखितमुखवस्विकात्मदेहोऽधिज्यचापाऽवनतकायः, करद्वयगृहीतरजोहरणादिरवग्रहाद्वहि:स्थितो, वन्दनायोद्यत एवमाह इच्छामीत्यादि वन्दनकश्रीतिलकाचार्य- 'इच्छामि' अभिलषामि, 'हे क्षमाश्रमण !', क्षमादिगुणोपलक्षितयतिप्रधान ! 'वन्दितुं' नमस्कर्तुं 'यापनीयया' याप्यते काल: क्षिप्यते यया * नियुक्तिः लघुवृत्तिः सा यापनीया तया शक्तिसमन्वितयेत्यर्थः । 'नषेधिक्या' निषेधः प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैषेधिकी, तनुस्तया इति * सूत्रव्याख्या। शिष्यवचः ।। अत्रान्तरे व्याक्षिप्तो गुरुर्भणति 'संक्षेपेण वन्दस्व' । अव्याक्षिप्तस्त, 'छन्देनेति भणति, स्वेच्छयेत्यर्थः ।। ततः शिष्यो ब्रते गाथा-१२१८ 'अनुजानीत' अनुजानीध्वं मे मम मितावग्रहम्, इहाचार्यस्य चतुर्दिशमात्मप्रमाणं क्षेत्रमवग्रहस्तत्राचार्यानुज्ञां विना प्रवेष्टुं न कल्पते ।२। ततो ७३० गुरुराह 'अनुजानामि' ।२। ततः शिष्यो नैषेधिक्याऽवग्रहे प्रविश्य विधिनोपविश्य गुरुपादौ स्वललाटं च कराभ्यां स्पृशन्निदं वक्ति । 'अधःकार्य *चरणलक्षणं प्रति 'कायेन' मदीयहस्तललाटलक्षणेन 'संस्पर्श' आमर्शस्तमप्यनुजानीध्वमिति योगः । 'क्षमणीयः' सोढव्यः भवद्धिः 'कमः संस्पर्श सति देहग्लानिरूपः । 'अल्पक्लान्तानां' अल्पशब्दोऽभाववचनः वेदनारहितानामित्यर्थः । 'बहुशुभेन भे' भवतां दिवसो व्यतिक्रान्तः, * दिवसग्रहणं रात्र्याधुपलक्षणम् ।३। गुरुराह 'तहत्ति' तथेति । यथा ब्रवीषि तथास्ति ।३। देहवार्ता पृष्ट्वा शिष्यः संयमवाती पृच्छति । 'जत्ताभे' * यात्रा संयमनियमादिरूपा । 'भे' भवतामुत्सर्पतीति गम्यते ।४। ततो गुरुः प्रतिवक्ति 'तुब्भंपि वट्टइ' मम तावदुत्सर्पति भवतोऽपि किमुत्सर्पति * ७३० १. 'अनुमन्यध्वं' ५ ख ल । [२२६] FREER
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy