________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः
| ४ | पुनर्विनेयः प्राह 'जवणिज्जं च भे' यापनीयं च शक्तिमत्, इन्द्रियनोइन्द्रियैरबाधितं, 'भे' भवतां शरीरमिति गम्यम् । ५ । ततो गुरुराह ' एवं ' तथेत्यर्थः ॥ ५ । पुनः शिष्यो वक्ति क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रमं - अपराधम् । ६ । अथ गुरुर्वदति 'अहमवि खामेमि तुम्भे' अहमपि क्षमयामि युष्मान् व्यतिक्रमं प्रमादोद्भवम् । अहमित्येकवचनं युष्मानिति च बहुवचनमौद्धत्यं परिहारार्थम् । ६ । तदेवं शिष्यः प्रणमन् क्षमयित्वा 'आवस्सियाए' अवश्यं कार्येषु चरणकरणादिषु भवा क्रिया आवश्यकी अथवा अवश्यं प्रथमवेलायामवग्रहान्निर्गमनक्रिया कार्यैवेत्यावश्यिकी तैया आवश्यक्या अवग्रहान्निर्गत्य ऊर्ध्वभूय पडिक्कमामीत्यादि दण्डकं पठति । द्वितीयवेलायां तु आवश्यिकीमकृत्वैव अवग्रहान्तःस्थ एव पडिक्कमामीत्यादि पठति । तत्र दैवसिक्या 'आयस्य' ज्ञानादिलाभस्य 'शातना' खण्डना आशातना निरुक्तया 'य' लोपः । तया अवज्ञारूपया क्षमाश्रमणानां यत्किमपि वैमनस्यं कृतं ततः प्रतिक्रमामि निवर्त्ते निवर्त्तनक्रियां करोमीति क्रियाकालः । किं विशिष्टया आशातनया ? 'त्रयस्त्रिंशदन्यतरया' त्र्यधिकत्रिंशदाशातनानामेकतरया ताश्चेमाः गुरोः पुरतः पार्श्वतः पृष्ठतोऽप्यासन्नं गमने (३) स्थाने (३) निषदने (३) प्रत्येकं तिस्र: (९) उच्चारभूमौ शिष्यस्याऽऽचार्यात्प्रथममाचमने (१०) शिष्यस्याऽऽचार्यात्पूर्वं * गमनागमनाऽऽलोचने (११) रात्रौ कः शेते जागतिं वेति गुरुणोक्ते जाग्रतोऽपि शिष्यस्याऽप्रतिश्रवणे (१२) आचार्यालाप्यं शिष्यस्य पूर्वमालापयतः (१३) भिक्षामन्यस्याऽऽलोच्य गुरूणामालोचयतः (१४) भिक्षामन्यस्योपदर्श्य गुरूणां दर्शयतः (१५) भिक्षयाऽन्यं प्राग्निमन्त्र्य गुरूणामामन्त्रणे (१६) गुरोर्यत्किञ्चिद् भैक्षं दत्वा 'खद्धं' स्निग्धं मधुरं शिष्यस्य स्वयं भक्षयतः । (१७) अतिदाने गुरुमतिक्रम्य १. तया आसेवनद्वारेण यदसाध्वनुष्ठितं तस्मात् पडिक्रमामि खमासमणाणं देवसियाए आसायणाए इति देवसिक्या आवस्य ज्ञानादिलाभस्य....ल.
७३१
*****
आ.नि.
वन्दनक
निर्युक्तिः सूत्रव्याख्या ।
गाथा - १२१८
७३१ [२२७]