________________
आ.नि. वन्दनकनियुक्तिः कत्यवनतादि
द्वारम् । गाथा-१२०३
लघुवृत्तिः *एव द्वितीयवेलायां द्विती
आवश्यक- * दुओणयं अहाजायं; किइकम्मं बारसावयं । चउस्सिरं निगुत्तं च, दुपवेसं एगनिक्खमणं ।।१२०३।। नियुक्तिः
* द्वे अवनते यस्मिंस्तद् व्यवनतम्, 'इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहियाए' इत्युक्त्वा गुरोश्छन्दानुवर्तनायैकमवनतम् । श्रीतिलकाचार्य
एवं द्वितीयवेलायां द्वितीयमवनतम् । यथा जातं जन्माऽस्य यथाजातः रचितकरसम्पुटो हि जायते, गृहीतरजोहरणमुखवस्त्रिकश्च व्रती ।
तथाभूत एव च वन्दते । इत्युभयजन्मापेक्षयापि यथाजातम् । कृतिकर्मेति वन्दनकम् । द्वादशावर्ताः करोल्लासरूपाः यत्र तद्वादशा* वर्तम् । इह प्रथममवग्रहे प्रविष्टः कृतसन्दशकप्रमार्जनादिक्रियः, अनुदात्तस्वरेणाकारोच्चारणसमकालं गुरुचरणौ कराभ्यां संस्पृश्य *
* उदात्तस्वरेण होकारोच्चारणसमकालं स्वभालं स्पृशति । एवं 'कायं' एवं 'कायेति । तथा 'ज' इत्यनुदात्तस्वरेणोच्चरन् गुरुचरणौ कराभ्यां * ७२५ * स्पृष्ट्वा गुरुचरणस्वललाटयोरन्तरे 'त्ता' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणोच्चरन् गुरुमुखविनिविष्टदृष्टिः स्वललाटं स्पृशति ।
__ एवं 'जवणि', एवं 'जंचभे' इति षडावर्ताः । नि:क्रष्क्रिम्य पुनः प्रविष्टस्य त एव षडिति द्वादश । चत्वारि शिरांसि यत्र, तञ्चतुःशिरः। * * प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमत् शिरोद्वयम्, नि:क्रष्क्रिम्य पुनः प्रवेशे तथैव शिरोद्वयम् । त्रिगुप्तं मनसा सम्यक् प्रणिहितो, *
वाचा अस्खलिताक्षराण्युच्चरन्, कायेनाव नविराधयन् वन्दनकं करोति । द्वौ प्रवेशौ यत्र तद् द्विप्रवेशम्, प्रथमोऽनुज्ञाप्य प्रवेशः, निर्गत्य पुनद्वितीयवेलायां द्वितीयः । एक नि:क्रष्क्रिम: आवश्यक्या निर्गच्छतो यत्र तदेकनिःक्रष्क्रिमम्।।१२०३ ।। कतिभिर्वावश्यकैः परिशुद्धमित्याह -
.१. 'वन्दनकः' ख । २. 'क्रियम्' ख । ३. 'तिस्यश्येकः' ख ।
***
७२५ [२२२]