SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. नमस्कारनियुक्तिः। निक्षेपपदपदार्थद्वाराणि । गाथा-८९० ईदृशानां तु रङ्काणां, ददते नैव किञ्चन । देवीवचनतो राज्ञा, सत्कृत्याऽऽनायितोऽथ सः ।४। कच्छुरोऽपि बृहद्वृत्तिः, कृत्वा चक्रे स्वसेवकः । भासुराङ्गः क्रमाद्राज्ञा, राज्ये वाहकवत्कृतः ।५। देवताऽर्चादि कुर्वाणं, जनमालोक्य सोऽन्यदा । किं कुर्वेऽहमिति ध्यात्वा, राजचैत्यमकारयत् ।६। राज्ञो राज्याश्च मूर्ती द्वे, अचीकरद्धिरण्मये । आह्वयत्तत्प्रतिष्ठायां, तौ द्वावपि सनागरी ।७। पृष्टो राज्ञाऽथ किमिदं, मूर्ती वामिति सोऽभ्यधात् । त्रिसन्ध्यमपि सङ्गीतपूर्वकं पूजयत्यसो ।८।। ततः सर्वाधिकारी स, चक्रे तुष्टेन भूभुजा । कृतवान् कटकं शत्रून्, विजिगीषुर्नूपोऽन्यदा ।९।। अन्तःपुरेऽप्यजायन्त, तस्यैवाऽऽरक्षकास्तदा । अन्तःपुर्यस्तदीयं त्ववरोधं सोढुमक्षमाः ।१०।। ऊचुस्तास्तं कुरु श्रीमन् !, राजकार्य त्वमेव नः । स नैच्छत्तास्तु तद्भक्तिमप्राप्यासन्नभक्तिकाः ।११। प्रविवेश ततः पश्चात्तत्राऽपि विगतत्रपः । राज्ञा समेयुषा ज्ञात्वा, महादण्डेन दण्डितः ।१२। राजा तीर्थङ्करः शङ्कादयोऽन्तःपुरिकाजनः । साधवो द्रमकस्थाने, कच्छूमिथ्यात्वमुच्यताम् ।१३। भासुरत्वं च सम्यक्त्वं, महादण्डो भवभ्रमिः । द्रमकस्याभवद्व्यनमस्कारः स एषकः ।१४। १. बृहद्धत्तिः' 'बृहद्वृत्ति' ५ । २ श्रीमान् ल, । ३ मुच्यते छ पल, । ४ 'भ्रमि' - ल, छ 'भ्रमः' प, 'भ्रमि' ख । . तद् (द्रमकस्य) भक्तिमप्राप्य ताः (अन्तःपुर्यः) अभक्तिका (त्यक्ताशनाः) आसन् इत्यर्थः । ५०८ ५०८ 161
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy