________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
पत्तेयबुद्धकरणे, चरणं नासिंति जिणवरिंदाणं । आहचभावकहणे, पंचहिं ठाणेहिं पासत्था । । ११५२ । ।
प्रत्येकबुद्धानां प्राग्भवाभ्यस्तोभयकरणानां आन्तरे एव करणे फलसाधके कोऽर्थः । एषामान्तरकरणमेव केवलोत्पादकमाकर्ण्य, * 'आहञ्चभावकहणे' आहञ्चशब्दः कदाचिदर्थः, 'भावः' परिणामविशेषः, 'कथने' सप्तमी तृतीयार्थे ततो यथैषां बाह्यकरणं चारित्रं विनापि केवलोत्पादको भावोऽभूत्तथाऽस्माकमपि स कदाचिद्भावीति कथनेन लोकानां पुरतः प्रकाशनेन पार्श्वस्थाद्याः पञ्चभिः स्थानैः प्राणातिपाताद्यैर्जिनवराणां सम्बन्धि चारित्रमात्मनः परेषां च नाशयन्ति । ।११५२ ।। तथा -
७०८
उम्मग्गदेसणाए, चरणं नासिंति जिणवरिंदाणं । वावन्नदंसणा खलु, न हु लब्भा तारिसा दहुं । ।११५३ ।। खशब्दोऽप्यर्थे द्रष्टुमपि तादृशा न लभ्याः, न योग्या इत्यर्थः । ।११५३ ।। गतं ज्ञानद्वारम् अथ दर्शनद्वारम् । दर्शनावलम्ब्याह - जह नाणेणं न विणा, चरणं नादंसणिस्स इय नाणं । न य दंसणं न भावो, तेन र दिट्ठि पणिवयामो । । ११५४॥ 'नादंसणिस्स इय नाणं' ज्ञानदर्शनयोर्युगपद्भावात्, दर्शनस्य ज्ञानोपकारकत्वाञ्च दर्शनस्य प्राधान्यम् । 'न य दंसणं न भावो' भावः शुद्धः सर्वविरत्यध्यवसायः । तदङ्गत्वाद्दर्शनमपि तद्रूपमेव तेन दर्शनं प्रणिपतामः । । ११५४।। युगपदुत्पन्नयोः कथमुपकार्योपकारकभाव
इत्याह
आ.नि. वन्दनक
निर्युक्तिः
कस्यद्वारम्
दर्शनद्वारम् ।
गाथा १९५२११५४
७०८
[२०४]