________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
७०१
**********
तित्थयरगुणा पडिमासु, नत्थि निस्संसयं वियाणंतो । तित्थयरत्ति नमंतो, सो पावइ निज्जरं विउलं । ।११३१ । । स्पष्टा ।।११३१ ।। अयमत्रोपनयः -
लिंग जिrपन्नत्तं एवं नमंतस्स निज्जरा विउला । जइवि गुणविप्पहीणं, वंदइ अज्झत्थसोहीए । ।११३२ । ।
'लिङ्गं' रजोहरणादिरूपं साधुचिह्नम्, एवमिति प्रतिमामिव 'जइवि गुणविप्पहीणं' यद्यपि मूलोत्तरगुणैर्विप्रहीनं तथाप्यध्यात्मशुद्धया वन्दते । ।११३२ ।। इति परेणोक्ते दृष्टान्तदाष्टन्तिकयोराचार्यो वैषम्यं दर्शयन्नाह -
संता तित्थयरगुणा, तित्थगरे तेसिमं तु अज्झत्थं । न य सावज्जा किरिया, इयरेसु धुवा समणुमन्त्रा । ।११३३ ।। 'सन्तो' विद्यमानास्तीर्थकरगुणास्तीर्थकरे तान् तत्प्रतिमायामारोप्य नमन्ति तेषां नमतां इदमध्यात्मं एतचिन्तनम् । न च प्रतिमासु सावद्यक्रिया । इतरेषु च पार्श्वस्थादिषु ध्रुवा सावद्यक्रिया । तन्नमने तस्याः 'समनुज्ञा' अनुमतिः स्यादेव । ।११३३ ।। परः -
जह सावज्जा किरिया, नत्थि य पडिमासु एवमियरावि । तयभावे नत्थि फलं, अह होइ अहेउगं होइ । ।११३४ ।। 'इयरावि' निरवद्यापि । । ११३४ ।। इत्थं परेणोक्ते आचार्य आह -
******
आ.नि.
वन्दनक
निर्युक्तिः
लिङ्गे वन्दनविचारः ।
गाथा - १९३१
१९३४
७०१
[१९७]