________________
आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
अथ मरुकदृष्टान्तमाह - __ पक्कणकुले वसंतो, सउणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया, मज्झि वसंता कुसीलाणं ।।१११३।। 'पक्कणकुले' गर्हितकुले, 'श्रवणीयपारगः' चतुर्दशविद्यास्थानपारगः ।।१११३ ।। अत्र कथा - पुत्राः पञ्चैकविप्रस्य, श्रवणीयस्यपारगाः । तेष्वेको व्यलगद् दास्यां, मद्यं पिबति साऽनिशम् ।१। न सोऽपिबत्ततो दास्या, प्रोचे नौ न समा रतिः । एवं तयाऽत्यादरेण, भाणं भाणं स पायितः ।। आदी प्रच्छन्नमपिबत्, पपी प्रकटमप्यथ । पश्चादामिषमप्याद, पक्कणेरपि सोऽमिलत् ।३। सोऽथ चक्रे बहिः पित्रा, समस्तैः स्वजनैरपि । स्नेहाद द्वितीयस्तद्नेह, प्रविश्यादत्त किञ्चन ।४।। सोऽपि निर्धाटितः पित्रा, तृतीयस्तु बहिः स्थितः । वार्ता पृच्छति दत्ते च, सोऽपि पित्रा बहिः कृतः ।५। चतुर्थो दापयत्तस्य, स्वं परम्परया पुनः । सोपि त्यक्तः पञ्चमस्तु तद्गन्धमपि नेच्छति ।६। स राजविदितः पित्रा, विदधे गृहनायकः । इतरे तु कुसंसर्गाञ्चत्वारोऽपि बहिः कृताः ।७। दृष्टान्तोपनयाश्चात्र, पार्श्वस्थाः पक्कणोपमाः । आचार्यों विप्रसदृशः, पुत्रकल्पाच साधवः ।८। .।।११०८।। गाथायामुद्दिष्टम् ।
आ.नि. वन्दनकनियुक्तिः कस्यद्वारम् अवन्दनीयसंसर्गजदोषे मरुककथा। गाथा-१९१३
६९६
中華藥業準準準準準準
६९६ [१९२]
紧紧紧器紧紧器第