________________
KRRRRRRR:
*
आवश्यक- समवसरणे गत्वा, नत्वा स्वामिपदाम्बुजम् । ततः समस्तसाधूनां, द्वादशावर्त्तवन्दनम् ।२५। नियुक्तिः हरिददी प्रहर्षेण, राजानोऽन्ये स्थिताः क्रमात् । वीरको वासुदेवानुवृत्त्या निर्वहति स्म सः ।२६ । श्रीतिलकाचार्य- बद्धस्वेदोऽभवत् कृष्णः, श्रान्तवान् पृष्टवान् प्रभुम् । न सङ्ग्रामशतैरेवं, त्रिभिः श्रान्तः सषष्टिभिः ।२७ । लघुवृत्तिः
स्वाम्यूचे हारितं तत्र, जितमद्य पुनस्त्वया । तीर्थकरनामगोत्रं, सम्यक्त्वं क्षायिकं तथा ।२८। सप्तम्याश्च तृतीयायां, पृथिव्यामायुराहितम् । इयालाँभोऽभवत् कृष्ण !, वन्दनस्य प्रभावतः ।२९ ।
किं प्रभोऽजनि वीरस्याऽनेन स्वामी त्वमर्जितः । भावतः कृतिकर्माऽभूद्विष्णोर्वीरस्य चेतरत् ।३०। ६८९
एकस्य क्षितिभर्तुर्दा, सेवको ग्रामठक्कुरौ । तयोः सीमाविवादेन, गच्छतोः स्वामिसन्निधो ।१। अभवदर्शनं साधोरथैको भावतस्तदा । साधौ दृष्टे ध्रुवं सिद्धिरित्युक्त्वा विधिनाऽनमत् ।२। उद्धट्टनं द्वितीयोऽपि, कुर्वस्तद्वदवन्दत । व्यवहारे जित: सोऽथ, स्वाम्यने द्रव्यपूजकः ।३।
द्वितीयो भावपूजाकृत् साधौ विजयवानभूत् । * एकदा द्वारिकापुर्या, श्रीनेमिः समवासरत् । शम्बपालादयः पुत्रा, विष्णुना भणितास्तदा ।।
१. 'ठाकुरो' ख । . 'उट्टनं' - अनुवर्तनम् ।
आ.नि. वन्दनकनियुक्तिः द्रव्यभाववन्दनके दृष्टान्ताः । कृष्णवीरको शम्बपालको। गाथा-११०५
६८९ [९८५]
*******