SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः दत्ते प्रावृषि नाऽऽस्थानं, बहुजीववधं विदन् । वासुदेवस्ततो वीरो, द्वाराऽलाभार्दुदुम्बरे ।२। मुक्त्वा! याति पुष्पाद्यैः, प्रत्यहं नैव जेमति । वर्षाराने व्यतिक्रान्ते, हरिरास्थानमासदत् ।३। आयाता भूभुजः सर्वे, वीरकोऽप्यनमत्तदा । राजाऽप्राक्षीत्कथं वीर !, कृशोऽसि द्वारपालकः ।४। तद्वृत्ते कथिते राज्ञोऽनुकम्पाऽजनि तं प्रति । अवारितप्रवेशं तं, चक्रेऽथान्तःपुरेऽपि हि ।५। विष्णुर्विवाहकाले च, पुत्रिका नन्तुमागताः । अपृच्छत् पुत्रि ! किं दासी, राज्ञी वापि भविष्यसि ।। राज्य इत्यभ्यधुः सर्वास्ततो विष्णुरुवाच ताः । व्रतं श्रीनेमिपादान्ते, गृह्णन्तु स्वाम्यहेतवे ।७। कृत्वा नि:क्रष्क्रिमणोत्साहं, सर्वाः प्रावाजयत्ततः । एकां राज्यशिषत्पुत्री, ब्रूया दासीत्वमस्तु मे ।। ततः प्रेषीनृपं नन्तुं, पृष्टा शिष्टमुवाच सा । दध्यौ विष्णुः पुत्रिका, मेऽवमंस्यते कथं परैः ।९। । दध्यावुपायं नैवान्या, अप्येवं कुर्वते यथा । हुं विज्ञातस्तदुपायो, रह: पप्रच्छ वीरकम् ।१०। अस्ति किञ्चित् त्वया शोर्य, कतं नास्तीति सोऽवदत् । राजोचे चिन्तय चिरं, चिन्तयित्वाथ सोऽभ्यधात् ॥११॥ मया बदाँ सरटः, पाषाणेन हतो मृतः । जलं शकटमार्गेण, वहद्वामांहिणा धृतम् ।१२। १. 'दुदुम्बरो' - ल. 'दुदुम्बरं' ल, । . द्वारं-प्रवेशः । 準準準準準準準準準業藥举準準準準準準準準準準準準準準準準。 आ.नि. वन्दनकनियुक्तिः द्रव्यभाववन्दनके दृष्टान्ताः * कृष्णवीरको। गाथा-११०५ ६८७ ६८७ [१८३] *######
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy