________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
दिश्यैकस्यां वनखण्डे, विशश्राम परिश्रमात् । पुष्पफलजुषस्तस्य, मध्ये जूर्णशमीतरोः ।४। बद्धपीठस्य लोकोऽर्चा, कुरुतेऽन्येष्वनादरः । स दध्यावस्य पीठस्य, गुणेनाऽसौ प्रपूज्यते ।५। सोऽथाप्राक्षीजनान् किं न, पूज्यतेऽमी महाद्रुमाः । ऊचुस्ते पूर्वजैरेतत्, कृतं तत्पूज्यते जनः ।। तस्याप्यथाऽभवचिन्ता, यादृशोऽत्र शमीतरुः । तादृशोऽस्म्यहमन्ये तु, राजेभ्यजा बहुश्रुताः ।। सन्ति ते स्थापिता नैव, गुरुभिः स्थापितोऽस्म्यहम् । श्रामण्यं मे कुतोऽर्चाय, रजोहृतिचितेर्गुणात् ।८। ममार्चा क्रियते लोकर्बुद्धः प्रतिनिवृत्तवान् । विहृत्य मुनयः प्राप्ता, आचार्याणामदर्शनात् ।९। यावचिन्तातुराः सन्ति, तावदायातवान् गुरुः । तेषामाख्यत्तदा संज्ञाभूमि यातोऽथ तत्र मे ।१०।। अभूत् शूलं पतित्वाऽस्था, शान्ते सत्यागतोऽस्म्यहम् । तुष्टास्तेऽनन्तरं सोऽपि, गीतार्थानां यथातथम् ॥११॥ आलोच्य प्रतिपन्नोऽसौ, प्रायश्चित्तं शुभाशयः । तस्य द्रव्यचितिः पूर्व, पश्चाद्धावचितिस्ततः ।१२। अथ कृष्णकथा । द्वारवत्यां नृपः कृष्णश्चरित्रैर्धवल: पुन: । वीरक: कोलिकस्तत्र, कृष्णस्यास्त्यतिभक्तिमान् ।। १. 'नाऽर्चाय मे गुणं किन्तु पूज्यार्पितरजोहतेः' प । २. 'र्गुणान्' ल ।
आ.नि. वन्दनक नियुक्तिः द्रव्यभाववन्दनके दृष्टान्ताः क्षुल्लकः । गाथा-११०५
६८६
準準準準準準準準準準準準準準準準準準準準準準準
६८६ [१८२]