SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६८५ नाऽभ्युत्तस्थुर्वीतरागाः पादौ प्रामार्जयत्र ते । प्रस्थाप्य दण्डकं प्रत्यक्रामदीर्यां रुषा गुरुः ॥१४ ॥ अथाऽऽलोच्य बभाषे तान्, वन्देऽहं वः कुतोऽथ ते । ऊचुर्भाति यतः सेर्ष्या, दध्यौ तद्धृष्टतां गुरुः ।१५। तथापि वन्दते रोषाद्वन्दितेषु चतुर्ष्वथ । ऊचुस्ते वन्दिता द्रव्याद्वन्दध्वं भावतोऽधुना ॥ १६ ॥ किमेतदपि जानीथ, बाढं कोऽतिशयोस्ति वः । आहुः कैवलिकः सोऽस्ति, तदाकर्ण्य वचो गुरुः ॥१७॥ सहसोद्धिनरोमाञ्चः, परं संवेगमागतः । निनिन्द स्वं मया हाहा, केवल्याशातना कृता । १८ । तेऽथाख्यन् प्राग्व्यवहारं, ज्ञान्यज्ञातो भनक्ति न । स युष्माभिः समं नासीदित्यायासिष्म नो वयम् ॥ १९ ॥ ततोऽदाद्वन्दनं भूयस्तेषां हर्षाद्गुरुस्तदा । क्रोधात्कर्म यथाऽबध्नात्, शमादच्छोटयत्तथा ॥ २० ॥ अपूर्वकरणं प्राप्तः, शुध्यमानो विकल्मषः । चतुर्थवन्दनस्यान्ते, केवलज्ञानमासदत् । २१ । एकैवानुष्ठिता चेष्टा, बन्धमोक्षविधायिनी । प्राक् द्रव्यवन्दनमभूत्पश्चात्तद्भाववन्दनम् । २२ । अथ क्षुल्लककथा । कुर्वाणाः कालमाचार्याः, क्षुल्लं सल्लक्षणं पदे । विदधुः साधवः सर्वे तदाज्ञावर्त्तिनोऽभवन् । १ । गीतार्थसाधुपार्श्वे च विजने पठति स्म सः । अन्यदा मोहनीयेन, बाध्यमानः सुसाधुषु ॥ २ ॥ भिक्षागतेषु संज्ञाम्भो, ग्राहयित्वैकसाधुना । बहिर्भूमिमिषाद्धग्नपरीणामो जगाम सः ॥३॥ १. 'मानसः' ल, स प्राग्व्यवहारः । ************* *********** आ.नि. वन्दनक निर्युक्तिः द्रव्यभाव वन्दनके दृष्टान्ताः क्षुल्लकः । गाथा - ११०५ ६८५ [१८१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy