________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
६७४
**********
कित्तेमि कित्तणिज्जे, सदेवमणुयासुरेसु लोएसु । दंसणनाणचरित्ते, तवविणओ देसिओ जेहिं ।। १०७७ ।। 'कीर्त्तयिष्यामि' नामभिः स्तोष्ये । ज्ञानदर्शनचारित्राणि तपस्तथा विनयो देशितो यैः । ।१०७७ ।। संख्यामाह -
चडवीसंति य संखा, उसभाईयाण भन्नमाणाण । अविसद्दग्गहणा पुण, एरवयमहाविदेहेसु । । १०७८ ।। स्पष्टा ।।१०७८ ।। केवलिन इत्यस्य व्याख्यामाह -
कसिणं केवलकप्पं, लोगं जाणंति तहय पासंति । केवलचरित्तनाणी, तम्हा ते केवली हुंति ।। १०७९ ।। 'कृत्स्नं' संपूर्ण 'केवलकल्प' केवलप्रमाणं यावत् केवलं ज्ञानं प्रसरति तावन्तं लोकम् । 'केवलं' मत्यादिज्ञानरहितं चारित्रसहितं केवलज्ञानमेषामस्तीति केवलचारित्रज्ञानिनः, दर्शनमविनाभावित्वादस्त्येव ।। १०७९ ।। अथ तत्कीर्त्तनमाह -
उसभगाहा सुविहिगाहा कुंथुगाहा ।
एतास्तिस्रोऽपि सूत्रगाथाः स्पष्टाः । एतेषां नाम्नां कारणविशेषमाह -
ऊरूसु उसभलंछण, उसभो सुमिणंमि तेण उसभजिणो ।
ऊर्वोर्वृषभलाञ्छनत्वात् मातुश्चतुर्द्दशस्वप्रेषु प्रथमवृषभदर्शनाद्वा ऋषभः । शेषजिनमातरस्त्वादौ स्वप्ने गजं पश्यन्ति ।
*********1
आ.नि. चतुर्विंशतिस्तवः जिननामान्वर्थः ।
गाथा - १०७७१०७९
६७४
[१७०]