________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६६५
भा. नामं ठवणा दविए, भावे य थयस्स होइ निक्खेवो । दव्वत्थओ पुप्फाई, संतगुणुक्कित्तणा भावे । ।१९२ । । स्पष्टा । अत्र चालनोत्तरे आह -
आ.नि. स्तवनिक्षेपः ।
भा. दव्वत्थओ भावत्थओ, दव्वत्थओ बहुगुणुत्ति बुद्धि सिया । अनिउणमइवयणमिणं, छज्जीवहियं जिणा बिंति । । १९३ ।। द्रव्यस्तवार्हत्वे द्रव्यस्तवभावस्तवयोर्द्रव्यस्तवो बहुगुणः स्वपरोपकारकत्वादिति कस्यचिद्बुद्धिः स्यात् इति चालना । अथोत्तरं - इदं चालनोक्तं अनिपुणमतिवचनम् । यतः षट्जीवहितं जिनाः प्रधानं ब्रुवते । किं षट्जीवहितमित्याह -
कूपदृष्टान्तः । गाथा - १०५६ भा.गा. १९२१९५
भा. छज्जीवकायसंजमो, दव्वथए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ, पुप्फाईयं न इच्छंति । । १९४ ।। पूर्वार्द्धं स्पष्टम् । ततः 'कृत्स्नसंयमविदो' जिनाः साधूनां भावस्तववतां 'पुष्पादिकं' द्रव्यस्तवं 'नेच्छन्ति' नानुमन्यन्ते । तर्हि केषामेष योग्य इत्याह -
*********
भा. अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुग्गो । संसारपयणुकरणो, दव्वत्थए कूवदिट्टंतो । । १९५ । । 'अकृत्स्त्रप्रवर्त्तकानां' असंपूर्णसंयमवताम्, यदि सावद्यो द्रव्यस्तवः, श्रावकाणामपि कथं योग्यः ? अत्र कूपदृष्टान्तः - पान्थः कोऽपि पथश्रान्तस्तृष्णक् शुष्कां नदीं गतः । खनत्यन्धुं जलायाऽस्य, स्यात्तृष्णाद्यधिकं तदा ॥१॥ मृत्पिण्डाद्यैश्च मालिन्यं, यद्यपि स्यात्तथाऽपि हि । तद्भवेनाम्भसा याति, तृष्णाद्यर्वाक्पुराभवम् ॥२॥
१ 'घुवं' ल ।
******
६६५ [१६१]