________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६६४
।। चतुर्विंशतिस्तवाध्ययनम् ।।
'ॐ नमो वीतरागाय' ।
आ.नि. चतुर्विंशतिस्तव निक्षेपः ।
* 'चतुर्विंशति' निक्षेप: गाथा - १०५६ भा.गा. १९१
***********
जयन्तु जन्तुसन्तानतमस्तानवभानवः । अर्हतामंहयः शुद्धध्यानसन्धानसानवः ।
उक्तं सामायिकाऽध्ययनम् । अधुना तत्प्ररूपकाणां चतुर्विंशतेरर्हतां स्तवः चतुर्विंशतिस्तवः, तदेवाध्ययनम्, तस्य व्याख्यावसरः । तत्र प्रथमं चतुर्विंशतिस्तवस्य निक्षेपमाह -
चडवीसगत्थयस्सओ, निक्खेवो होइ नामनिप्पन्नो । चउवीसगस्स छक्को, थयस्स उ चउक्कओ होइ ।। १०५६ ।। नाम्ना निष्पन्नो नामनिष्पन्नो निक्षेपः । कथं भवति । चतुर्विंशतेः 'षट्कः' षोढा, स्तवस्य तु चतुर्द्धा । चतुर्विंशतिनिक्षेपमाह - भा. नामं ठवणा दविए, खित्ते काले तहेव भावे य । चउवीसगस्स एसो, निक्खेवो छव्विहो होइ । । १९१ ।। नामचतुर्विंशतिः-कस्यापि चतुर्विंशतिरिति नाम स्यात् । चतुर्विंशतिरित्यक्षरन्यासः -स्थापनाचतुर्विंशतिः । द्रव्याणां मोदकादीनां चतुर्विंशतिः द्रव्यचतुर्विंशतिः । अत्र ग्रामे चतुर्विंशतिः क्षेत्राणि सन्तीति - क्षेत्रचतुर्विंशतिः । समयादीनां चतुर्विंशतिः - कालचतुविंशतिः । भावः परिणामविशेषस्तेषां चतुर्विंशतिर्भावचतुर्विंशतिः । स्तवनिक्षेपमाह -
६६४
[१६०]