________________
आवश्यक- * श्रेणिकः पुनरप्राक्षीत्, स राजर्षिः प्रभोऽधुना । यादृग्ध्यानोऽस्ति तत्रैव, मृतो गच्छति कां गतिम् ।२२। नियुक्तिः स्वाम्यूचे संप्रति मृतोऽनुत्तरेषु सुरो भवेत् । अथोचे श्रेणिकः स्वामिन् !, पूर्वमन्यन्यरूपि किम् ।२३। श्रीतिलकाचार्य- किमन्यथा मयाऽज्ञायि, स्वाम्याह न मयाऽन्यथा । ऊचे त्वयाऽन्यत्राऽश्रावि, श्रेणिक: स्माह तत्कथम् ।२४। लघुवृत्तिः
स्वाम्यथोवाच तद्वृत्तं, सर्व श्रेणिकभूभुजे । प्रसन्नचन्द्रराजर्षेः, पाश्र्वेऽभूदुन्दुभिध्वनिः ।२५। देवैः कलकलश्चक्रे, राजोचे किमिदं प्रभो !। स्वाम्याह तस्य राजर्षेः, शुध्यमानात्मनोऽधुना ।२६ । कुर्वन्ति केवलोत्पत्ती, महिमानं सुरासुराः । दृष्टान्तोऽभूत्तदैकोऽयमुत्सर्गे द्रव्यभावयोः ।२७। सामायिकसमाप्तौ किञ्चित्कर्तृस्वरूपमाह - ___ सावजजोगविरओ, तिविहं तिविहेण वोसरिअ पावो । सामाइयमाइञ्चिय, एसोऽणुगमो परिसमत्तो ।।१०५२।। पूर्वार्द्ध स्पष्टम् । सामायिकमादावेवादत्त इति शेषः । एषोऽनुगमो व्याख्यारूप: परिसमाप्तः ।।१०५२।। उक्तोऽनुगमः । संप्रति नयास्ते च प्रागुक्ताः । स्थानाशून्यार्थमन्तर्भावितशेषो ज्ञानक्रियानयावाह -
विजाचरणनएसु, सेससमोयारणं तु कायव्वं । सामाइयनिजुत्ती, सुभासियत्था परिसमत्ता ।।१०५३।। स्पष्टा ।।१०५३।। ज्ञाननयमाह - १ पूर्वमन्यत्प्ररूपि' ल ।
आ.नि.सा.नि. सूत्रस्पर्शक नियुक्तिः भावव्युत्सर्गे
दृष्टान्तः प्रसन्नचन्द्र
राजर्षिः । गाथा-१०५२
१०५३
६६१
६६१ [१५७]