________________
SRRY
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
वराकः सोऽधुना डिम्भो, दायादैः परिभूयते । उपद्रुतं पुरं लोको, दुःखे बहुरपात्यत ।९। तदद्रष्टव्य एवायमित्याकाऽकुपन्मुनिः । दध्यौ पुत्रं मयि सति, दु/रपकरोति कः ।१०। तदेव तत्र मनसा स, ययौ विस्मृतव्रतः । हस्त्यश्वरथपादातसैन्यानि समनाहयत् ।११। महासङ्ग्राममारेभे, रोद्रध्यानवशंवदः । सञ्जहे वैरिणो नैकान, शल्यभल्लादिहेतिभिः ॥१२॥ अत्रान्तरे प्रभुं नन्तुं, श्रेणिकः क्ष्माभृदीयिवान् । स दृष्ट्वा तमवन्दिष्ट, कायोत्सर्गधरं मुनिम् ।१३। तं नेषदपि दृष्ट्यापि, स पुनः समभावयत् । श्रेणिकोऽचिन्तयन्नून, शक्लध्याने स्थितोऽस्त्यसो ।१४। ततः श्रीश्रेणिको वीरं, नत्वाऽप्राक्षीजगत्प्रभोः । प्रसन्नचन्द्रराजर्षिर्यादृग्ध्यानो मया नतः ।१५।। तत्र कालं स चेत्कुर्यात, तस्य जायेत का गतिः । बभाषे भगवान् वीरः, सप्तम्यामवनो गतिः ।१६। तच्छ्रुत्वा श्रेणिको दध्यो, हा किमेतन्मया श्रुतम् । अत्रान्तरेऽस्य राजर्षेः, सामाऽऽरूढचेतसः ।१७। प्रधानरिपुणैकेन, युध्यमानस्य निर्भयम् । निष्ठां गतानि शस्त्राणि, शिरस्त्राणे करं न्यधात् ।१८। एतेनैतं हनिष्यामि, हताः सर्वे परेऽरयः । यावत्पस्पर्श मौलिं स, तावदग्रेऽस्ति लुञ्चितम् ।१९। तत: संवेगमापन्नो, राजर्षिर्दध्यिवानिदम् । आः किं चक्रे मया धिक्, धिक् विराद्धं प्रथमव्रतम् ।२०। शुध्यमानपरिणामः, स्वां निन्दनतिचारिणम् । मनोबद्धानि कर्माणि, मनसैव क्षिपस्तदा ।२१।
आ.नि.सा.नि. सूत्रस्पर्शकनियुक्तिः भावव्युत्सर्गे
दृष्टान्तः प्रसन्नचन्द्रराजर्षिः । गाथा-१०५१
६६०
६६० [१५६]
蒙蒙蒙蒙紫菜